________________
अध्य. १२
उत्तराध्ययनसूत्रम्
॥१३०॥
व्याख्या- अर्चयामः पूजयामः 'ते' इति सुब्व्यत्ययात्त्वां हे महाभाग! न नैव ते तव किञ्चिच्चरणरेण्वादिकमपि नार्चयामः, तथा भुक्ष्व इतो गृहीत्वा 'सालिमं त्ति' शालिमयं शालिनिष्पन्नं कूरं ओदनं नानाव्यञ्जनैर्दध्यादिभिः संयुतमिति सूत्रार्थः ॥ ३४ ॥ अन्यच्च
मूलम्-इमं च मे अस्थि पभूअमन्नं, तं भूजसू अम्हमणुग्गहट्ठा ।
बाढंति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा! ॥ ३५ ॥ व्याख्या- इदं च प्रत्यक्षत एव दृश्यमानं मे मम अस्ति प्रभूतं भूरि अन्नं मण्डकखण्डखाद्यादि भोजनं तद्भुक्ष्व अस्माकमनुग्रहार्थं, एवं तेनोक्ते मुनिराह- बाढमेवं कुर्म इतीत्येवं बुवाण इति शेषः, प्रतीच्छति द्रव्यादिभिः शुद्धमिति गृह्णाति भक्तपानं 'मासस्स उ त्ति' मासस्यैव मासक्षपणस्यैवान्ते इति गम्यं, पार्यते-पर्यन्तः क्रियते नियमस्यानेनेति पारणं, तदेव | पारणकं, भोजनमित्यर्थः, तस्मिन्महात्मेति सूत्रार्थः ॥ ३५ ॥ तदा च तत्र यदभूत्तदाह
मूलम-तहिअं गंधोदयपुष्फवासं, दिव्वा तहिं वसुहारा य वुट्ठा ।
पहयाओ दुंदुहीओ सुरेहि, आगासे अहो दाणं च घुटुं ॥ ३६ ॥ व्याख्या-'तहिअंति' तत्र यज्ञपाटे गन्धोदकं च पुष्पाणि च गन्धोदकपुष्पाणि तेषां वर्ष वर्षणं गन्धोदकपुष्पवर्षं सुरैरिति | सम्बन्धात्कृतमिति गम्यते, नपुंसकलिङ्गनिर्देशश्चेह वर्षशब्दस्य पुनपुंसकलिङ्गत्वात् । दिव्या श्रेष्ठा 'तहिं ति' तत्र वसु-द्रव्यं तस्य धारा सततनिपातजनितासंततिर्वसुधारा, सा च वृष्टा पातिता सुरैरिति इहापि योज्यते । तथा प्रहता दुन्दुभयो देवानकाः सुरैः।
UTR-2
॥१३०॥