________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥१३३॥
व्याख्या-कथं केन प्रकारेण 'चरे त्ति' सूत्रत्वाच्चरामो यागार्थ प्रवद्महे वयं, हे भिक्षो । तथा यजामो यागं कुर्मः? कथमिति योगः, पापान्यशुभानि कर्माणि 'पणुल्लयामोत्ति' प्रणुदामः प्रेरयामो येनेति गम्यते, आख्याहि कथय नोऽस्माकं संयत यक्षपूजित ! यो ह्यस्मद्विदितः कर्मप्रणोदनोपायो याग: स तु युष्माभिर्दूषित इति भवन्त एवापरं यागमुपदिशन्त्विति भावः । ततः कथं स्विष्टं शोभनयजनं कुशला वदन्तीति सूत्रार्थः ॥ ४० ॥ मुनिराह
मूलम्-छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा ।
परिग्गहं इथिओ माण मायं, एअं परिणाय चरंति दंता ॥ ४१ ॥ व्याख्या- षड्जीवकायान् पृथिव्यादीन् असमारभमाणा अनुपमर्दयन्तः 'मोसं ति' मृषां अलीकं, अदत्तं च अदत्तादानमसेवमानाः, 'परिग्गहं' मूर्छा, स्त्रियो मानं माया तत्सहचरात्कोपलोभौ च एतदनन्तरोक्तं परिज्ञाय ज्ञपरिजया दुष्कर्मनिबन्धनमिति ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्याय चरन्ति यागे प्रवर्तन्ते दान्ताः। यतश्च दान्ता एवं चरन्ति ततो भवद्भिरप्येवं चरितव्यमिति सूत्रार्थः ॥ ४१ ॥ अनेन कथं चरामो यागायेति प्रश्नस्योत्तरमुक्तं, अथ कथं यजाम इति द्वितीयप्रश्नस्योत्तरमाह
मूलम्-सुसंवुडा पंचहिं संवरेहि, इह जीविअं अणवकंखमाणा ।
वोसट्टकाया सुइचत्तदेहा, महाजयं जयइ जण्णसिटुं ॥ ४२॥ व्याख्या - सुसंवृता स्थगिताश्रवद्वाराः पञ्चभिः संवरैः प्राणातिपातविरमणादिव्रतैः, इहेत्यस्मिन्मनुष्यजन्मनि, उपलक्षणत्वात्परलोके च जीवितं प्रस्तावादसंयमजीवितमनवकांक्षन्तोऽनिच्छन्तः, अत एव व्युत्सृष्टकायाः परीषहोपसर्गसहिष्णुतया
UTR-2
॥१३३॥