SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अध्य. १२ उत्तराध्ययनसूत्रम् ॥१३४॥ त्यक्तकायाः, शुचयोऽकलुषव्रतास्ते च ते त्यक्तदेहाश्चात्यन्तनिष्प्रतिकर्मतया शुचित्यक्तदेहाः, महान् जयः कर्मारिपराजयरूपो यत्र स महाजयस्तं 'जयइ त्ति' वचनव्यत्ययाद्यजन्ति यतय इति गम्यं । ततो भवन्तोप्येवं यजन्तां 'जण्णसिटुं ति' प्राकृतत्वात् श्रेष्ठयज्ञं श्रेष्ठशब्देन च एतद्यजनं स्विष्टं कुशला वदन्ति, एष एव च कर्मप्रणोदनोपाय इति सूचितमिति सूत्रार्थः ॥ ४२ ॥ अथ यद्ययं यज्ञः श्रेष्ठस्तदामु यजमानस्य कान्युपकरणानि ? को वा यजनविधिः ? इति ते प्रश्नयामासूः मूलम्-के ते जोई किं व ते जोइठाणं, का ते सुआ किं व ते कारिसंगं । एहा य ते कयरा संति भिक्खू , कयरेण होमेण हुणासि जोइं ॥ ४३ ॥ व्याख्या-'के इति' किं ते तव ज्योतिरग्निः? किं वा ते तव ज्योतिःस्थानं ? यत्राग्निनिधीयते, कास्ते खुचो घृतादिक्षेपिका दळः? किं वा ते करीष एवाङ्ग अनलोद्दीपनहेतुः करीषाङ्गं? येनाग्निः सन्धुक्ष्यते, एधाश्च समिधो याभिरग्निः प्रज्वाल्यते ते तव कतराः काः ? 'संति त्ति' चस्य गम्यत्वाच्छान्तिश्च दुरितोपशमहेतुरध्ययनपद्धतिः! कतरेति प्रक्रमः, हे भिक्षो! कतरेण होमेन हवनविधिना जुहोषि ? आहुतिभिस्तर्पयसि, ज्योतिरग्निं । षड्जीवकायारम्भनिषेधे ह्यस्मदिष्टो होमस्तदुपकरणानि च पूर्व निषिद्धानि तत्कथं तव यज्ञसम्भवः ? इति सूत्रार्थः ॥ ४३ ॥ मुनिराह मूलम्- तवो जोई जीवो जोइठाणं, जोगा सुआ-सरीरं कारिसंगं । कम्मे एहा संजमजोगसंती, होमं हुणामि इसिणं पसत्थं ॥ ४४॥ व्याख्या-तपो बाह्याभ्यन्तरभेदभिन्नं ज्योतिरग्निस्तस्यैव कर्मलक्षणभावेन्धनदाहकत्वात्, जीवो ज्योतिःस्थानं, तपोज्यो UTR-2 ॥१३४॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy