________________
॥ अथ सप्तदशमध्ययनम् ।
अध्य, १७
उत्तराध्ययनसूत्रम् ॥ २२६ ॥
॥ ॐ ॥ व्याख्यातं षोडशमध्ययनं, अथ पापश्रमणीयाख्यं सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने ब्रह्मचर्यसमाधिस्थानान्युक्तानि तानि च पापश्रमणैः सेवितुं दुःशकानीति तत्स्वरूपमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रद्वयम् -
मूलम् - जे केइ उ पव्वईए निअंठे, धम्मं सुणित्ता विणओववण्णे।
सुदुलहं लहिउं बोहिलाभं, विहरिज्ज पच्छा य जहासुहं तु ॥ १ ॥ व्याख्या-यः कश्चित्तुः पूरणे प्रव्रजितो निर्ग्रन्थः, कथं पुनः प्रव्रजितः ? इत्याह - धर्म शुभचारित्ररूपं श्रुत्वा विनयेन ज्ञानविनयादिना उपपन्नो युक्तो विनयोपपन्नः सन् सुदुर्लभमतिशयदुःप्रापं लब्ध्वा बोधिलाभं जिनधर्मावाप्तिरूपं, अनेन भावप्रतिपत्त्याऽसौ प्रव्रजित इत्युक्तं भवति । विहरेत्पश्चाद्दीक्षादानोत्तरकालं चः पुनरर्थे ततश्च प्रथमं सिंहतया प्रव्रज्य पश्चात्पुनः 'जहासुहं | तुत्ति' तुशब्दस्यैवकारार्थत्वात् यथासुखमेव निद्रादिप्रमादपरतया श्रृंगालवृत्त्यैव विहरेदित्यर्थः ॥ १ ॥ स च गुर्वादिनाऽध्येतुं | प्रेरितो यद्वक्ति तदाह -
UTR-2
॥२२६॥