SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ अध्य. १३ उत्तराध्ययनसूत्रम् ॥१७६ ॥ दिनोपलक्षणञ्चैतत्ततोऽनेनायुषाऽस्थिरत्वमुक्तं, उक्तञ्च -"क्षण-याम-दिवस-मास-च्छलेन गच्छन्ति जीवितदलानि ॥ इति विद्वानपि कथमिह, गच्छसि निद्रावशं रात्रौ ॥१॥" न च भोगा अपि अपेरत्र सम्बन्धात् पुरुषाणां नित्याः शाश्वताः, यत उपेत्य स्वप्रवृत्त्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं त्यजन्ति, कमिव क इवेत्याह द्रुमं यथा क्षीणफलं, वेत्यौपम्ये भिन्नक्रमश्च, ततः पक्षिण इव विहगा इव, फलोपमानि हि पुण्यानि, ततस्तदपगमे क्षीणफलं वृक्षमिव पुरुषं पक्षिण इव भोगा मुञ्चन्तीति सूत्रार्थः | ॥३१॥ यत एवमतःमूलम् - जइ तंसि भोगे चइउं असत्तो, अज्जाई कम्माई करेहि रायं । धम्मठिओ सव्वपयाणुकंपी, तो होहिसि देवो इओ विउव्वी ॥३२॥ व्याख्या- यदि त्वमसि भोगांस्त्यक्तुमशक्तः ततः किमित्याह- आर्याणि शिष्टजनोचितानि कर्माणि कार्याणि कुरु हे राजन्! धर्मे प्रक्रमाद्गृहस्थधर्मे सम्यग्दृष्ट्याद्याचारलक्षणे स्थितः सन् सर्वप्रजानुकम्पी समस्तप्राणीदयापरः, ततः किं फलमित्याह - तत आर्यकर्मकरणाद्भविष्यसि देवो वैमानिक इतोऽस्मान्मनुष्यभवादनन्तरं 'विउवि त्ति' वैक्रियशरीरवानिति सूत्रार्थः ॥३२॥ एवमुक्तोऽपि यदासौ न किञ्चित्प्रत्यपद्यत तदा मुनि: स्माह-- मूलम् - न तुज्झ भोगे चइऊण बुद्धी, गिद्धोसि आरंभपरिग्गहेस। मोहं कओ इत्तिओ विप्पलावो, गच्छामि रायं आमंतिओसि ॥३३॥ UTR-2 ॥१७६॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy