________________
अध्य. १५
उत्तराध्ययनसूत्रम् ॥ २०९॥
सरणं ति" सुप्व्यत्ययादातुरस्य सतः स्मरणं, हा तात ! हा मातरित्यादिरूपं, चिकित्सितं चात्मनो रोगप्रतिकाररूपं, तदिति सर्वं पूर्वोक्तं "परिणाय त्ति" ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज़या च प्रत्याख्याय परिव्रजेत् संयमाध्वनि गच्छेद्यः स भिक्षुरिति सूत्रार्थः ॥८॥ तथा --
मूलम् - खत्तियगणउग्गरायपुत्ता, माहण भोइ अ विविहा य सिप्पिणो।
____नो तेसिं वयइ सलोगपूअं, तं परिणाय परिव्वए स भिक्खू ॥९॥ व्याख्या - क्षत्रिया राजानः, गणा मल्लादिसमूहाः, उग्रा आरक्षकादयः, राजपुत्रा नृपसुतादयः, एतेषां द्वन्द्वः । माहना ब्राह्मणाः, भोगिका विशिष्टनेपथ्यादिभोगवन्तो नृपामात्यादयः, उभयत्र सुपो लुक्, विविधाश्च शिल्पिन: स्थपत्यादयः, ये भवन्तीति शेषः, नो तेषां वदति श्लोकपूजे, तत्र श्लोको यथा- शोभना एते, पूजा यथैतान् पूजयतेति, उभयत्रापि पापानुमत्यादिदोषसम्भवात् । किन्तु तत् श्लोकपूजादिकं द्विविधयापि परिजया परिज्ञाय परिव्रजेद्यः स भिक्षुरिति सूत्रार्थः ॥९॥ किञ्च - मूलम् - गिहिणो जे पव्वइएण दिट्ठा, अपव्वइएण व संथुआ दविज्जा।
तेसिं इहलोइअफलट्ठा, जो संथवं न करेइ स भिक्खू ॥ १०॥ व्याख्या - गृहिणो ये प्रव्रजितेन दृष्टा उपलक्षणत्वात्परिचिताश्च, अप्रव्रजितेन वा गृहस्थावस्थेन वा सह संस्तुता: परिचिता भवेयुः 'तेसिं ति' सुब्व्यत्ययात्तैः सह ऐहलौकिकफलार्थं वस्त्रादिलाभनिमित्तं यः संस्तवं परिचयं न करोति स भिक्षुरिति सूत्रार्थः ॥१०॥ तथा -
UTR-2
॥२०९॥