________________
अध्य. १५
उत्तराध्ययनसूत्रम् ॥ २१० ॥
मूलम् - सयणासणपाणभोअणं , विविहं खाइमसाइमं परेसिं ।
अदए पडिसेहिए निअंठे, जे तत्थ न पदूसई स भिक्खू ॥ ११ ॥ व्याख्या - शयनासनपानभोजनं विविधं खादिमस्वादिमं 'परेसिं ति' परैर्गृहस्थैः ‘अदए त्ति' अददद्भिः प्रतिषिद्धः क्वचि | त्कारणान्तरे याचमानोऽपि निराकृतो निर्ग्रन्थो बाह्याभ्यन्तरग्रन्थरहितो यस्तत्रादाने न प्रदुष्यति न प्रद्वेषं याति, त्वमेव मे घृतपूरान् दास्यसीति वाचकक्षपकवत् ! स भिक्षुरिति सूत्रार्थः ॥११॥
मूलम् - जं किंचि आहारपाणं, विविहं खाइमसाइमं परेसिं लद्धं ।
___जो तं तिविहेण नाणुकंपे, मणवयकायसुसंवुडे स भिक्खू ॥१२॥ व्याख्या - यत्किञ्चिदल्पमप्याहारपानं अशनपानीयं विविधं खादिमस्वादिमं 'परेसिं ति' परेभ्यो गृहस्थेभ्यो लब्ध्वा प्राप्य यः साधुः 'तं ति' सुप्व्यत्ययात्तेन आहारादिना त्रिविधेन मनोवाक्कायरूपप्रकारत्रयेण नानुकम्पते बालग्लानादीन्नोपकुरुते न स भिक्षुरिति शेषः। यस्तु सुसंवृतमनोवाक्कायः सन्, तेन बालादीननुकम्पते इति गम्यते, स भिक्षुरिति वृद्धव्याख्या ।
यथादृष्टसूत्रव्याख्याने त्वेवमप्यर्थः सम्भवति, यत्किञ्चिदाहारादिकं पूर्वोक्तं परेभ्यो गृहस्थेभ्यो लब्ध्वा यः 'तं ति' वचनव्यत्ययाभत्तान् दातॄन् त्रिविधेन नानुकम्पते, मुधाजीवित्वान्नोपकर्तुमिच्छति स मनोवाक्कायसुसंवृतो भिक्षुरिति सूत्रार्थः ॥ १२॥ तथा --
UTR-2
॥२१०॥