________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१५५ ॥
तुमभिलषति ॥२५०॥" भावार्थोऽस्या ज्ञेयः, कथमित्यथ वरधनौ विचिन्तयति ॥ आगाद्वितीयदिवसे, तदन्तिके तापसी वत्सा ॥२५१॥ आशीर्वादं दत्वा, क्षिप्त्वा कुसुमाक्षतानि शिरसि तयोः ॥ नीत्वान्यतो वरधनु, निगद्य किञ्चिच्च सापि ययौ ॥२५२।। आगतमथ सुहृदं नृप- पुत्रः प्रोचेऽनया किमुक्तमिति ? सोऽवददयाचदेषा, प्रतिलेखं प्राच्यलेखस्य ॥२५३॥ श्रीब्रह्मदत्तनामाङ्कितो ह्यसौ लेख इति वद त्वं मे ॥ को ब्रह्मदत्त इति ? ॥ सा मयानुयुक्तेति पुनरवदत् ॥ २५४॥ अत्रास्ति श्रेष्ठिसुता, 'रत्नवती' नाम सुन्दरीरत्नम् ॥ आबाल्यादपि सा म - य्यनुरक्ता प्राप तारुण्यम् ॥२५५॥ तामन्यदा विमनसं, दृष्ट्वा गत्वा तदन्तिकमवोचम् ।। का ते चिन्तेति ? ततो, मामिति तत्परिजनोऽवादीत् ॥२५६॥ अस्या हि दौर्मनस्ये, भूयांसि दिनानि जज्ञिरे मात: ! ॥ अथ पृष्टा सा पुनरपि, जगौ न किमपि हिया यावत् ॥२५७॥ अवदत्तावत्तस्याः, प्रियङ्गुलतिकाह्वया प्रियवयस्या ।। न हि वक्ति लज्जयासौ, तदहं ते वच्मि मातरिदम् ॥२५८॥ भ्रातुर्बुद्धिलनाम्नः, सागरनाम्नश्च ताम्रचूडरणे ॥ इयमुपवनं गतैकं, कुमारमुत्तमतममपश्यत् ॥२५९॥ ईदृश्यभूत्ततोऽसौ, तयेति कथिते स्मरव्यथाक्रान्ताम् ॥ निश्चित्य तामवोचं, सद्भावं ब्रूहि मे वत्से ! ॥ २६०॥ अथ कथमपि साप्यूचे, मातर्यस्ते प्रियङ्गुलतयोक्तः ॥ स ब्रह्मदत्तनामा, पतिर्न चेन्मे तदा मरणम् ॥२६१॥ घटयिष्ये तव कामित-मित्यधृति मा कृथा वृथा वत्से ! ॥ तत इति मयोदिता सा, किंचित्स्वस्थेति पुनरूचे ॥२६२॥ भाव्यखिलमीहितं मे, मातर्देव्या इव प्रसादात्ते ॥ तस्मै ज्ञापयितुमद- स्तदपि क्रियतामुपायोऽयम् ॥२६३॥ क्षिप्त्वा करण्डमध्ये, हारममुं युतमनेन लेखेन । प्रेषय तस्मै क्षिप्रं, व्यपदेशाबुद्धिलभ्रातुः ॥२६४॥ तन्नाम्ना दत्तममुं, लास्यति सद्योऽन्यथा तु लाति न वा ॥ लक्षार्द्ध ह्युक्तमभू
UTR-2
॥१५५॥