________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥ १५६ ॥
त्तत्सुहृदो बुद्धिलेन तदा ॥२६५॥ प्रोच्येति तया दत्तौ, हारो लेखश्च दासहस्तेन ॥ प्रहितौ मया गतेऽहनि, तत्प्रतिलेखोऽर्प्यतामधुना ॥२६६॥ उक्त्वेति तस्थुषी सा, त्वत्प्रतिलेखे मयार्पिते तु ययौ ॥ आर्या तत्र च लेखे, लिखितासौ वर्त्तते स्वामिन् ! ॥२६७॥ "उचितत्वाद्वरधनुना, सुहृदोक्तो ब्रह्मदत्तनामापि ॥ स्त्रीरत्नं रत्नवती- मिच्छति गोविन्द इव कमलाम् ॥२६८॥" श्रुत्वेति मित्रवचनं, तां द्रष्टुं भूपभूरभूदुत्कः ॥ अन्येधुराकुलतया, वरधनुरागत्य तं प्रोचे ॥ २६९॥ अत्रावामन्वेष्टुं प्रहिता दीर्पण सन्ति निजपुरुषाः ॥ तद्वचनादत्रत्यो, नृपोऽपि तदुपक्रमं कुरुते ॥२७०॥ तत्किं कर्तव्यमिति, ध्यायन्तौ सागरोऽनिगृहे तौ ॥ क्षिप्त्वा जुगोप निधिव- द्रविरप्यपराम्बुधावविशत् ॥२७१॥ निशि निर्गममिच्छन्तौ तौ, रथमारोप्य कमपि पन्थानम् ।। नीत्वा सागरदत्तो, ववले बाष्पायिताक्षियुगः ॥२७२॥ तावथ पुरः प्रयान्तौ, शस्त्राढ्यरथस्थितां वने वनिताम् ॥ ददृशतुरियती वेला, किं वां लग्नेति जल्पन्तीम् ॥२७३॥ कावावां वेत्सि च कथ-मिति पृष्टा नृपभुवाथ सावादीत् ॥ धनसञ्चयाधिनाथः,श्रेष्ठ्यासीदिह धनप्रवरः ॥२७४॥ अष्टानां तनयाना- मुपर्यहं तस्य नन्दनाभूवम् ॥ प्राप्ता च यौवनं ना - पश्यं कंचिद्वरं प्रवरम् ॥२७५॥ स्थितमस्मिन्नुद्याने, तदर्थमाराधयं ततो यक्षम् ॥ सोऽपि हि भक्त्या तुष्टः प्रत्यक्षीभूय मामवदत् ॥२७६॥ श्रीब्रह्मदत्तनामा, चक्री वत्से ! तव प्रियो भावी ॥ स्वामिन् ! स कथं ज्ञेयो, मयेति पृष्टः स पुनरूचे ॥२७७ ॥ यः सागर-बुद्धिलयो-रायास्यति कुक्कुटाहवे ससखा ॥ विश्वमनोहररूपः, श्रीवत्सी स त्वया ज्ञेयः ॥२७८।। स च मच्चैत्यसमीपे, प्रथमं ते मेलितोऽन्यतो गच्छन् ॥ इति यक्षगिरा स्वामिन्! जानामि त्वामहं नियतम् ॥२७९॥ तन्मे मन इव रथममु-मारोह विभो ! द्रुतं तयेत्युदितः।। रथमारुह्य समित्रः क्व ? गम्यमिति तां * भूमिगृहे।
UTR-2
॥१५६॥