SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य अध्य. १३ यनसूत्रम् ॥१५७॥ जगौ नृपभूः ॥२८०॥ साख्यन्मगधपुरे मम, वसति पितृव्यो धनावहः श्रेष्ठी ॥ स हि कर्ता प्रतिपत्तिं प्रचुरां तत्तत्र गम्यमितः ॥२८१॥ इति रत्नवतीवचना- त्सुहृदा सूतेन वाहयन् वाहान् ॥ प्रापाटवीं कुमारः, कौशांबीविषयमुलंघ्य ॥२८२॥ तत्र सुकण्टककण्टक - संज्ञौ चौराधिपौ प्रबलसैन्यौ ॥ तं रुरुधतुरपहर्तुं, रथादि विशिखान् प्रवर्षन्तौ ॥२८३॥ चापमुपादाय ततः, प्रहरन्नृपनन्दनः शरप्रकरैः ॥ तद्दस्युबलमनाशय- दहर्पतिस्तम इवांशुभरैः ॥२८४॥ तमथोचे सचिवसुतः, श्रान्तोऽसि रणेन तद्रथेऽत्रैव ॥ स्वपिहि क्षणं ततः सो-ऽप्यशेत सह रत्नवत्या द्राग् ॥२८५॥ प्रातश्चैकां तटिनी, प्राप्यातिष्ठन् हयाः स्वयं श्रान्ताः। तत्र च जागरितो ना - पश्यत्सुहृदं रथे नृपभूः ॥२८६॥ भावी जलाय गत इति, मुहुर्मुहुरशब्दयत्कुमारस्तम् ॥ न त्वाप प्रतिवचनं, सद्वचनं नीचवदन इव ॥२८७॥ व्याकुलचेताः स ततो, बाष्पजलाविलदृशा दिशः पश्यन् ॥ रक्ताभ्यक्तमपश्यत्, स्यन्दनवदनं नरेन्द्रसुतः ॥२८८॥ हाऽहं हत इति जल्पं -स्ततोऽपतन्मूर्च्छितो रथोत्सङ्गे ॥ अधिगतसंज्ञस्तु भृशं, व्यलपत्कुत्रासि ? मित्रेति ॥२८९॥ तमथाख्यद्रत्नवती, प्रभो! सखा ज्ञायते न हि मृतस्ते ॥ तत्तस्येदममंगल- मुचितं वाचापि नो कर्तुम् ॥२९०।। नूनमपृष्ट्वापि त्वां, त्वत्कार्यायैव स हि गतो भावी ॥ स्थाने गतास्तु शुद्धिं, तस्य नरैः कारयिष्यामः ॥२९१॥ परमिह गहने स्थातुं नो | चिरमुचितं यमोपवनकल्पे ॥ इति तगिरा स तुरगा-नुदन्नगादग्रतो व्यग्रः ॥२९२।। उल्लंघ्यानुल्लंघ्या-मपि तामटवीं ययौ स मगधानाम् ॥ सीमग्रामं भवतति-मतीत्य मोक्षं मुमुक्षुरिव ॥२९३॥ तत्र ग्रामसभास्थो, ग्रामपतिः प्रेक्ष्य तं रुचिररूपम् ॥ पुरुषोत्तमोऽयमिति हृदि, निरणैषीद्गृहमनैषीच्च ॥ २९४॥ किं भृशमुद्विग्न इवा- सीत्यथ तेनोदितो वदन्नृपभूः ॥ चौरैः सह कुर्वन् रण UTR-2 ॥१५७॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy