________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१५४॥
तत्र पणीकृतलक्षं,चरणायुधरणमपश्यतां धनिनोः ॥ बुद्धिल-सागरदत्ता-भिधयोः शस्त्रायितांघ्रिनखम् ॥२३६॥ तत्र च बुद्धिलचरणा-युधेन जात्येऽपि कुक्कुटेऽन्यस्मिन् ॥ भग्ने वरधनुरसम- असाऽसहः सागरमदोऽवक् ।।२३७॥ जात्योऽपि कुक्कुटोऽसौ, भग्नस्तव सागरामुनापि कथम् ॥ तद्यदि वदसि तदाहं, विलोकयाम्येनमादाय ॥२३८॥ सोऽथ जगौ भ्रातस्त्वं, प्रसद्य मयि सद्य एव पश्येदम् ॥ मानापगमो व्यथयति, मामन्तर्न तु धनापगमः ॥२३९॥ वरधनुरथ तं पश्यन्, ददर्श तच्चरणयोरयःसुचीः॥ तच्च ज्ञात्वा तं द्रुत- मुपेत्य बुद्धिल इति प्रोचे ॥२४०॥ यदि मे छद्म न वक्ष्यसि, लक्षार्ट्स तव तदा प्रदास्येऽहम् ॥ तेनेत्युक्तो वरधनु - रूचे तद्रहसि भूपभुवे ॥२४१॥ सूची: कृष्ट्वा स तत - स्तं सागरकुक्कुटेन योजितवान् ॥ अपसूचिकं च बुद्धिल-कुक्कुट| मपरो द्रुतमजैषीत् ।।२४२॥ तुष्टोऽथ सागरस्ता- वारोप्य रथं स्वमन्दिरमनैषीत् ।। स्वगृह इव तद्गृहे ता - वपि तस्थतुरुचितलीलाभिः
॥२४३॥ बुद्धिलदासस्तत्रा-गतोऽन्यदा वरधनुं रहसि नीत्वा ॥ प्रोचे यत्तव कथितं, लक्षार्द्ध बुद्धिलेन तदा ॥२४४॥ तत्स्थाने तेनासौ, हारः प्रहितोऽस्ति चतुरयुतमूल्यः।। इत्थं प्रोच्य करण्डं, दत्वा च यथागतः सोऽगात् ॥ २४५॥ वरधनुरपि गत्वा तन्निवेद्य निखिलं करण्डमुद्घाट्य ॥ मौक्तिकरुचिजितसितरुचि-मदीदृशन्नृपभुवे हारम् ॥ २४६॥ हारे हारिणि तत्राव -लम्बितं लेखमात्मनामाङ्कम् ॥ दृष्ट्वा नृपभूः सुहृदं, कस्यासौ लेख इत्यूचे ॥२४७॥ को वेत्ति कस्यचिदयं, त्वत्समनाम्नस्तवाथवा भावी ॥ तेनेत्युदितो गाढो-त्सुकोऽभवद्भपभूर्जातुम् ॥२४८॥ लेखं तमथो वरधनु-रुन्मुद्रयति स्म नलिनमिव तरणिः ॥ आर्यामेकां लिखितां, तत्र ददऑलिपंक्तिमिव ॥२४९॥ सा चेयं - "यद्यपि जनोऽर्थ्यतेऽसौ, जनेन संयोगजनितयत्नेन ॥ त्वामेव हि रत्नवती, तथापि मानयि
UTR-2
॥१५४॥
* ४००००