________________
अध्य.१३
उत्तराध्ययनसूत्रम् ।। १४५।।
देव्यवदद्भवतु तथा-प्यनेन किं जायते शिशुना ? ॥१०१ ॥ हंस्या सममन्येधु-बंकमादायावरोधमायातः ॥ नृपभूरुवाच नैवं, कस्याप्यनयं सहिष्येऽहम् ॥१०२॥ तत इत्यवदद्दीर्घः , शृणु देवि ! शिशोः सुतस्य वचनमिदम् ।। अनुमापयति मनस्थं, कोपं यद्धूम इव वह्निम् ॥ ३०३॥ वृद्धिं गतो हि भावी, सुख-विघ्नायावयोरसौ नियतम् ॥ तदयमुदयन्निवामय, उच्छेद्यः शिशुरपि दुरात्मा ! ॥१०४॥ देव्यूचे राज्यधरं, हन्मि कथं तनयमौरसं स्वामिन् ! ॥ पशवोऽपि प्राणानिव, निजान्यपत्यानि रक्षन्ति ॥१०५॥ भूयोऽप्यूचे दीर्घा, रिपुमेवावेहि सुतममुं सुतनो! । तत्किं मुह्यसि मयि सति, बहवस्तव भाविनस्तनयाः ॥१०६॥ तदथ प्रतिपद्योचे, चुलनी रतरागलुप्तसुतमोहा । केनोपायेनास्मि - निहते वचनीयता न स्यात् ॥१०७॥ दीर्घोऽब्रवीत्कुमारो , विवाह्यतां तस्य वासगृहदम्भात् ॥ गूढप्रवेशनिर्गम - मेकं लाक्षागृहं कार्यम् ॥ १०८॥ तत्र च सवधूकेऽस्मिन्, सुप्ते रात्रौ हुताशनो ज्वाल्यः ।। इति तौ विमृश्य जतुगृह-मारम्भयतामसारमती ॥१०९॥ वृत्वा ब्रह्मसुतार्थ, पुष्पवतीं पुष्पचुलनृपतिसुताम् ॥ सामग्री च समग्रां, विवाहसक्तामकारयताम् ॥११०॥ जतुगृहरचनादथ धनु-सचिवो दुष्टं तयोर्विदन् भावम् ॥ ब्रह्मभुवो हितमिच्छु-र्गत्वाख्यद्दीर्घनृपमेवम् ॥१११॥ अस्ति सुतो मे वरधनु -नामा युष्मनिदेशकरणचणः ॥ तदहं जरी चिकीर्षे, परलोकहितं क्वचिद्गत्वा ॥११२॥ कुर्यात्कमप्यनर्थं, गतः परत्रायमिति धृताशङ्कः॥ दीर्घः कृतावहित्थ- स्तमित्यवोचत्ततो दम्भात् ॥११३॥ त्वामन्तरा हि राज्यं, न भाति नभ इव विना निशानाथम् ॥ तदलं परत्र गमनैः, कुरु धर्ममिहैव दानाद्यम् ॥११४॥ गङ्गातटेऽथ कृत्वा, सद्बुद्धिः सत्रमण्डपं मंत्री ॥ दीनादीनां दानं, ददौ यथाकाममन्नादेः ॥११५॥ प्रत्ययितनरैर्दानो-पकारमानैर्वशीकृतैः सचिवः ॥
UTR-2
॥१४५॥