________________
अध्य.१३
उत्तराध्ययनसूत्रम् ॥१४४ ॥
सुहृदाम् ॥ सोचे कारयितव्यं, राज्यमिदमनेन युष्माभिः ॥८६॥ इत्युक्त्वा राज्ञि मृते, कृत्वा तत्प्रेतकर्म तत्सुहृदः । दध्युमित्रस्य सुतः, शैशवमवगाहते यावत् ॥४७॥ तावद्राज्यमिदं रक्षणीयमारक्षकैरिवास्माभिः ॥ इति दीर्घ रक्षार्थं, मुक्त्वाऽन्ये स्वस्वनगरमगुः ॥८८॥ दीर्घोऽथ राज्यमखिलं, बुभुजेऽरक्षकमिवौदनं काकः ॥ मार्जारो दुग्धमिवा-वैषीत्कोशं च चिरगूढम् ॥८९ ॥ मध्ये शुद्धान्तमगा - दनर्गल: पूर्वपरिचयादनिशम् ।। रहसि च चुलनीदेवी - मवार्त्तयन्नमनिपुणगिरा ॥९०॥ सोऽथावमत्य लोकं, ब्रह्मनृपतिसौहृदं कुलाचारम् ॥ अरमयदनिशं चुलनी -महो ! अजय्यत्वमक्षाणाम् ॥९१॥ ग्रहिलापटमिव मुमुचे, चुलन्यपि प्रेम रमणविषयं द्राक् ॥ तौ च सुखं भुञ्जानौ, नाज्ञासिष्टां दिनान् व्रजतः ॥१२॥ तच्च तयोर्दुश्चरितं, ब्रह्मनृपस्य द्वितीयमिव हृदयम् ॥ ज्ञात्वा सचिवो धनुरिति, दध्यौ सद्बुद्धिजलजलधिः॥१३॥ कुरुतामकार्यमेत-च्चुलनी जातिस्वभावचपलमतिः ॥न्यासेऽर्पितमपि सकलं, दी? विद्रवति तदयुक्तम् ॥ ९४॥ तदसौ किमपि विदध्या- भूपभुवोऽपि व्यलीकमतिदुष्टः ॥ नीचो हि पोषकस्या -प्यात्मीयः स्यान भुजग इव ॥१५॥ ध्यात्वेति ज्ञापयितुं, तत्सकलं सेवितुं कुमारं तम् ॥ वरधनुसंज्ञं निजसुत-मादिशदतिनिपुणमतिविभवम् ॥१६॥ तेनाथ तयोश्चरिते, निवेदिते ब्रह्मसुस्तदसहिष्णुः ॥ अन्तःपुरान्तरगम-बध्वा द्विककोकिले कुपितः ॥ ९७ ॥ वध्याविमौ यथा वर्ण-सङ्करादीदृशः परोऽपि तथा॥हन्तव्यो मे निश्चित - मित्युच्चैस्तत्र चावादीत् ॥९८॥ काकोऽहं त्वं च पिकीत्यावां खलु हन्तुमिच्छति सुतस्ते ॥ तत इति दीर्घेणोक्ते देव्यूचे शिशुगिरा का भी: ? ॥९९॥ भद्रकरेणुमृगेभौ, नीत्वा तत्रान्यदा तथैव पुनः ।। नृपभूः प्रोचे तच्च, श्रुत्वा दीर्घोऽवदच्चुलनीम् ॥१००॥ शृणु सुभगे सुतवाणी , साभिप्रायां हलाहलप्रायाम् ।।
UTR-2
॥१४४॥