________________
अध्य.१३
उत्तराध्ययनसूत्रम् ।।१५०॥
साख्यत् ॥ येनाहतास्मि नाट्यो - न्मत्तः स हि खेचरो नाम्ना ॥ १७६॥ मम तेजोऽसहमानो, मुक्त्वा विद्याकृतेऽत्र धामनि माम् ॥ विद्या साधयितुमगा - द्वंशकुडंगे स्वयं गहने ॥१७७।। तस्योर्ध्वपदो धूम, पिबतो विद्याद्य सेत्स्यति स्वामिन् ! ॥ विद्या - बलोजितबलः, परिणेष्यति मा ततः स कुधीः ॥१७८॥ अथ तद्वधव्यतिकरे, तेनोक्ते साधु कृतमिति ब्रुवती ॥ मुमुदे भृशं कनी सा, प्रियलाभादप्रियोच्छेदात् ॥१७९॥ अथ तामुदुह्य कन्यां, गान्धर्वविवाहरचनया नृपभूः ॥ रमयन् विविधैः सुरतै - स्तां क्षणदां क्षणमिवाक्षपयत् ॥१८०॥ प्रातश्च खेचरीणां, ध्वनिमवनिधवाङ्गजोऽम्बरे श्रुत्वा ॥ वियति भवति कस्यायं, ध्वनिरिति पप्रच्छ पुष्पवतीम् ! ॥१८१॥ सा प्रोचे प्रिय! नाट्यो-न्मत्ताह्वत्वद्रिपोरिमे जामी ॥ भ्रातुः कृते विवाहो - पस्करमादाय सकलमपि ॥१८२॥ 'खण्डा' 'विशाखिका' ऽऽख्ये, खेचरकन्ये मुधा समायातः ॥ कार्य ध्यातमितरथा, दैवेन ह्यन्यथा घटितम्! ॥१८३॥ (युग्मम् ) तत्तावदपसर त्वं, यावत्सङ्कीर्त्य तव गुणान् प्रगुणान् ॥ जानाम्यनयोर्भावं , त्वयि रागविरागयोः स्वामिन् ! ॥१८४॥ रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं त्वमागच्छेः ॥ रागाभावे तु सितं, तञ्च प्रेक्ष्यान्यतो गच्छेः ॥१८५॥ अभयोऽपि ततो नृपभू - स्तस्थौ गत्वान्यतस्तदनुवृत्त्या ॥ अथ पुष्पवती श्वेतं, चलयामास क्षणात् केतुम् ॥१८६॥ तं च प्रेक्ष्य कुमारः, शनैः शनैः प्रस्थितोऽन्यतो गन्तुम् ॥ उल्लंघ्य वनं दुर्गम- मेकमविन्दत सर: सायम् ॥ १८७॥ तत्र स्नात्वा सलिलं, निपीय पीयूषसरसमथ सरसः ॥ निर्गत्य ब्रह्मसुत - स्तटमुत्तरपश्चिमं भेजे ॥ १८८॥ तत्र च कन्यां काञ्चि -त्समीक्ष्य जलदेवतामिवाध्यक्षाम् ॥ सफलं जन्म ममाभू -दद्येति नृपाङ्गजो दध्यौ ॥१८९॥ तद्दर्शनामृतरसं, पायं पायं व्यपायविकलं सः ॥ ग्रीष्मे पयः पिबन्मरु- पान्थ इव * विघ्नहितम् ।
UTR-2
॥१५०॥