________________
अध्य.८
उत्तराध्ययनसूत्रम् ॥१५॥
इत्यादिकाभिर्वाग्भिविप्रतार्य खेलन्ति क्रीडन्ति 'जहावत्ति' वाशब्दस्यैवकारार्थत्वात् यथैव दासैरेहि याहि मा वायासीरित्यादिभिः क्रीडाभिर्दासमिव पुरुषं प्रवर्तयन्त्यो विलसन्तीति सूत्रार्थः ॥ १८ ॥ पुनस्तासामेवातिहेयतां दर्शयन्नाह --
मूलम्-नारीसु नो पगिज्झिज्जा, इत्थी विप्पजहे अणगारे।
धम्मं च पेसलं णच्चा, तत्थ ठविज्ज भिक्खू अप्पाणं ॥१९॥ व्याख्या-नारीषु नो नैव प्रगृध्येत् प्रशब्दः प्रारम्भे, ततो गृद्धिमारभेतापि न, किं पुनः कुर्यादिति भावः । इत्थित्ति' स्त्रियो 'विप्पज्जहेत्ति' विप्रजह्यात् त्यजेत्, पूर्वं नारीग्रहणान्मानुष्य एवोक्ता, इह तु देवतिर्यक्सम्बन्धिन्योऽपि त्याज्या उक्ता इति न पौन| रुक्त्यम् । अनगारो मुनिः, किं पुनः कुर्यादित्याह-'धम्मं चत्ति' चशब्दस्यावधारणार्थत्वात् धर्ममेव ब्रह्मचर्यादिरूपं पेशलमत्र परत्र चैकान्तहितत्वेनाऽतिमनोज्ञं ज्ञात्वावबुध्य तत्रेति धर्म स्थापयेद्भिक्षुर्मुनिरात्मानमिति सूत्रार्थः ॥१९॥ अध्ययनार्थोपसंहारमाह
मूलम्-इति एस धम्मे, अक्खाए कविलेणं च विसुद्धपण्णेणं ।
तरिहिंति जे काहिंति, तेहिं आराहिअ दुवे लोगत्ति बेमि ॥२०॥ व्याख्या-- इत्यनेन प्रकारेण एष पूर्वोक्तो धर्मो मुनिधर्म आख्यातः कथितः, केनेत्याह-कपिलेनेति पूर्वसङ्गतिकत्वादमी मद्वचनं प्रतिपद्यन्तामित्यात्मानमेव निर्दिशति, चः पूत्तौं, विशुद्धप्रज्ञेन निर्मलज्ञानेन । अथार्थसिद्धिमाह-तरिहितित्ति' तरिष्यन्ति भवा
UTR-2
॥१५॥