SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥ १४ ॥ सूत्रार्थः ॥ १६ ॥ असन्तोषे स्वविदितं हेतुमाह- मूलम् - जहा लाहो तहा लोहो लाहा लोहो पवड्ढइ । दोमासकयं कज्जं कोडीएवि न निट्ठिअं ॥१७॥ व्याख्या- यथा लाभो द्रव्यप्राप्तिः तथा लोभो मूर्च्छा भवतीति शेषः किमेवमित्याह-यतो लाभाल्लोभः प्रवर्धते, यथा यथा लाभस्तथा तथा लोभः प्रवर्धत इत्यर्थः ॥ कुतश्चैवमित्याह- द्वाभ्यां माषाभ्यां कृतं द्विमाषकृतं कार्यं प्रयोजनं दास्याः पुष्पताम्बूलमूल्यरूपं कोट्यापि दीनाराणां न निष्ठितं न निष्पन्नं, उत्तरोत्तरविशेषाभिलाषादिति सूत्रार्थः ॥ १७॥ द्विमाषकृतं च कार्यं स्त्रीमूलमिति तत्परिहारोपदेशमाह - मूलम्-णो रक्खसीसु गिज्झिज्जा, गंडवच्छासु णेगचित्तासु । जाओ पुरिसं पलोभित्ता, खेलंति जहा व दासेहिं ॥१८॥ व्याख्या- नो नैव, राक्षस्य इव राक्षस्यः स्त्रियस्तासु, यथा हि राक्षस्यो रक्तसर्वस्वमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति, एवमेता अपि तत्त्वतो हि ज्ञानादीन्येव जीवितं, ज्ञानादीनि च ताभिरपहियन्त एवेत्येवमुक्तं । 'गिज्झिज्जत्ति' गृध्येदभिकांक्षावान् भवेत्, कीदृशीषु ? 'गंडवच्छासुत्ति' पिशितपिण्डरूपत्वाद्गण्डे इव गण्डे कुचौ वक्षसि यासां तास्तथा तासु, वैराग्योत्पादनार्थञ्चेत्थमुक्तं । अनेकान्यनेकसंख्यानि चञ्चलतया चित्तानि यासां तास्तथा तासु, उक्तञ्च - "हृद्यन्यद्वाच्यन्यत्, कर्मण्यन्यत् पुरोऽथ पृष्ठेऽन्यत् ॥ अन्यत्तव मम चान्यत् स्त्रीणां सर्वं किमप्यन्यत् ॥ १ ॥ " याः स्त्रियः पुरुषं कुलीनमपि प्रलोभ्य त्वमेव मे शरणं त्वमेव च मे प्रिय UTR-2 अध्य. ८ ॥१४॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy