________________
उत्तराध्ययनसूत्रम्
।। ४५ ।।
इआ रायरिसिम्मि, नमिम्मि अभिनिक्खमंतंमि ॥ ५ ॥
व्याख्या- कोलाहलो विलापादिकलकलः, स एव कोलाहलकः, स भूतो जातो यस्मिंस्तत्कोलाहलकभूतं, आसीदभूमिथिलायां सर्वं गृहारामदेवकुलादीति गम्यते । प्रव्रजति प्रव्रज्यामाददाने तदा तस्मिन्काले, राजा चासौ राज्यावस्थापेक्षया, ऋषिश्च तत्कालापेक्षया राजर्षिस्तस्मिन्नम अभिनिष्क्रामति गृहान्निर्गच्छति सतीति सूत्रार्थः ॥ ५ ॥ अत्रान्तरे च यदभूत्तदाहमूलम् - अब्भुट्ठिअं रायरिसिं पव्वज्जाठाणमुत्तमं । सक्को माहणरूवेण, इमं वयणमब्बवी ॥ ६ ॥
व्याख्या - अभ्युत्थितमभ्युद्यतं राजर्षिं प्रव्रज्यैव स्थानमाश्रयो ज्ञानादिगुणानां प्रव्रज्यास्थानं तस्मिन्नुत्तमे श्रेष्ठे, सूत्रत्वाद्विभक्तिव्यत्ययः, शक्र इन्द्रो माहनरूपेण द्विजवेषेणाऽऽगत्येति शेषः, तदा हि तदाशयं परीक्षितुकामः शक्रः स्वयमागादिति । ततः स इदं वक्ष्यमाणं वचनमब्रवीदिति सूत्रार्थः ॥ ६ ॥ यदब्रवीत्तदाह
मूलम् - किं नु भो अज्ज मिहिलाए, कोलाहलगसंकुला । सुच्चंति दारुणा सद्दा, पासाएसु गिहेसु अ ॥ ७॥
व्याख्या- किमिति प्रश्ने, नु इति वितर्के, भो इत्यामन्त्रणे, अद्य मिथिलायां पुर्यां कोलाहलकेन बहलकलकलरूपेण सङ्कुला व्याप्ताः कोलाहलकसङ्कुलाः श्रूयन्ते ? दारुणा हृदयोद्वेगकराः, शब्दा विलापाक्रन्दादयः प्रासादेषु, गृहेषु तदितरेषु, चशब्दास्त्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥७॥ ततश्च
मूलम् - एयम निसामित्ता, हेऊकारणचोइओ । तओ नमिरायरिसी, देविंदं इणमब्बवी ॥ ८ ॥
UTR-2
अध्य. २
॥४५॥