________________
उत्तराध्य
यनसूत्रम्
॥ ४६ ॥
व्याख्या एतमनन्तरोक्तमर्थं निशम्य हेतुः पञ्चावयववाक्यरूपः, कारणञ्चान्यथानुपपत्तिमात्रं ताभ्यां चोदितः प्रेरितो हेतुकारणचोदितः, इह च हेतुकारणे कोलाहलकसङ्कुलाः शब्दाः श्रूयन्ते इत्यनेनैव सूचिते, तथा हि- अयुक्तमिदं तव निष्क्रमणमिति प्रतिज्ञा १ । आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः २ । यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनामयुक्तं, यथा प्राणातिपातादिरिति दृष्टान्तः ३ । आक्रन्दादिदारुणशब्दहेतुश्चेदं तव निष्क्रमणमित्युपनयः ४ । तस्मादयुक्तमेवेदं तव निष्क्रमणमिति निगमनमिति ५ । | पञ्चावयवमनुमानवाक्यमिह हेतुः । आक्रन्दादिदारुणशब्दहेतुत्वं त्वन्निष्क्रमणस्यायुक्तत्वं विना नोपपद्यते इत्येतावन्मात्रं तु शेषावयवविवक्षारहितं कारणं, अनयोः पृथगुपादानं तु साधनवाक्यवैचित्र्यरचनार्थमिति ध्येयं । 'तओत्ति' ततः प्रेरणानन्तरं नमिराजर्षिर्देवेन्द्रमिदमब्रवीदिति सूत्रार्थः ॥८ ॥ यदवादीत्तदाह
मूलम् मिहिलाए चेइए वच्छे, सीअच्छाए मणोरमे । पत्तपुप्फफलोवेए, बहूणं बहुगुणे सया ॥९॥ व्याख्या - मिथिलायां पुरि, चितिरिह प्रस्तावात् पत्रपुष्पाद्युपचयस्तत्र साधु चित्यं चित्यमेव चैत्यमुद्यानं तस्मिन् 'वच्छेत्ति' सूत्रत्वादवृक्षो विद्यत इति शेषः । कीदृश: ? इत्याह-शीतच्छायः शीतलच्छायो मनोरमो मनोरमाभिधः पत्रपुष्पफलोपेतो बहूनां प्रक्रमात् खगादीनां बहुगुणः फलादिभिर्भृशमुपकारी सदा सर्वकालं, एकारश्चात्र सूत्रे सर्वत्र मागधभाषानुसरणात् ज्ञेय इति सूत्रार्थः ॥१॥ तत्र किमित्याह
मूलम्-वाएण हीरमाणंमि, चेइअंमि मणोरमे । दुहिआ असरणा अत्ता, एए कंदंति भो ! खगा ॥ १० ॥
-
UTR-2
अध्य. ९
॥४६॥