SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अध्य. १० उत्तराध्ययनसूत्रम् ॥७७॥ ॥४७॥"जगचिंतामणि जगनाह जगगुरु जगरक्खण, जगबंधव जगसत्थवाह जगभावविअक्खण । अठ्ठावयसंठविअरूव कम्मठ्ठ विणासण, चउवीसं वि जिणवर जयंतु अप्पडिहयसासण" ॥ ४८ ॥ इति स्तुत्वा च नत्वा च, चैत्यान्निर्गत्य गौतमः ॥ उवास रात्रि| वासाया-शोकोऽशोकतरोस्तले ॥४९॥ इतश्च धनदः शक्र-दिक्पालो नन्तुमर्हतः । तत्रायातो जिनान्नत्वा, ववन्दे गणिनं मुदा ॥ ५० ॥ देशनायां गणेशोपि, तत्त्वत्रयनिरूपणे ॥ इति साधुगुणानूचे, गुरु तत्त्वं प्ररूपयन् ॥ ५१ ॥ "महाव्रतधरास्तीव्र-तप:शोषितविग्रहाः ॥ अन्तप्रान्ताशनास्तुल्य-शत्रुमित्रा जितेन्द्रियाः ॥ ५२ ॥ निष्कषाया महात्मानः, साधवो गुरवः स्मृताः ॥ तारयन्ति परं ये हि, तरन्तः पोतवत्स्वयम् ! ॥५३ ॥ (युग्मम् )" तच्छ्रुत्वा गणिगात्रं च, वीक्ष्यातिमृदु पीवरम् ॥ श्रीदो दध्यौ विसंवादि, वचोऽस्य स्ववपुष्यपि ॥५४॥अन्तप्रान्ताशनत्वे हि, नेदृक् स्यादङ्गसौष्ठवम् ॥ इति वैश्रमणः किञ्चि - ज्जहास विकसन्मुखः ! ॥५५॥ ततो ज्ञात्वा तदाकूतं, चतुर्जानी जगौ प्रभुः ॥ध्यानमेव प्रमाणं स्यात्, तनुत्वं न तनो: पुनः॥५६ ॥ अस्य संशयपकस्य, क्षालनाय जलो| पमम् ॥ श्रीपुण्डरीकाध्ययनं, शृणु वित्तेश ! तद्यथा ॥ ५७ ॥ विजये पुष्कलावत्यां, विदेहावनिमण्डने ॥ नगर्यां पुण्डरीकिण्यां, महापद्मनृपोऽभवत् ॥५८ ॥ तस्य पद्मावतीराज्ञी-कुक्षिजौ सुन्दराकृती ॥ पुण्डरीककण्डरीका-भिधौ पुत्रौ बभूवतुः ॥५९ ॥ तस्यां नगर्यामन्येद्युः, स्थविराः समवासरन् । उद्याने नलिनवने, त्रिदशा इव नन्दने ॥६० ॥ तान् प्रणम्य महापद्मः, श्रुत्वा धर्म विरक्तधीः ॥ गत्वा पुर्यां पुण्डरीकं, न्यधाद्राज्ये महामहैः ॥६१॥ कण्डरीकञ्च संस्थाप्य, यौवराज्येऽग्रहीव्रतम् ॥ पुण्डरीकमहाराजकृतदीक्षामहो नृपः ॥ ६२ ॥ अधीत्य सर्वपूर्वाणि, क्रमात्सम्प्राप्तकेवलः ॥ मासिकानशनेनागा-त्स राजर्षिः परं पदम् ॥ ६३ ॥ अथान्येयुः पावयन्तो, धरां चरणरेणुभिः ॥ त एव स्थविरास्तत्र, भूयोऽपि समवासरन् ॥ ६४ ॥ तांश्च श्रुत्वाऽऽगतान् हृष्टः, पुण्डरीकः UTR-2 ॥७७॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy