SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अध्य. १० उत्तराध्ययनसूत्रम् ॥७६ ॥ देववचः श्रुत्वा-ऽष्टापदं गन्तुमुद्यतः ॥ पप्रच्छ गौतमः सार्व-सार्वभौमं कृताञ्जलिः ॥ ३१ ॥ ततस्तापसबोधाय, तस्य स्थैर्याय च प्रभुः ॥ तत्र गन्तुं तमादिक्ष-दमोघाज्ञा हि पारगाः ॥ ३२ ॥ निधानं सर्वलब्धीनां, ततः श्रीगौतमप्रभुः ॥ भक्त्याभिवन्द्य तीर्थेशं, प्रतस्थेऽष्टापदं प्रति ।। ३३ ॥ इतश्च कोडिन्नदिन्न-सेवालास्तापसास्त्रयः ॥ तापसानां पञ्चशत्या, प्रत्येकं परिवारिताः ॥ ३४ ॥ मुक्तिरष्टापदारोहाद्विशामीति विभोर्वचः ॥ श्रुत्वा जनाननात्पूर्वं, प्रस्थिताः सन्ति तं प्रति ॥ ३५ ॥ (युग्मम् ) उपवासतपास्तेषु, प्रथमः सपरिच्छदः ।। कन्दादिभोजनो भेजे, तस्याद्रेशदिमेखलाम् ॥ ३६ ॥ षष्ठकारी द्वितीयस्तु, पक्वपत्रादिभोजनः ॥ द्वितीयां मेखलां प्राप, सतंत्रस्तस्य भूभृतः॥ ३७ ॥ तृतीयस्त्वष्टमतपाः, शुष्कशेवालपारणः ॥ तस्याद्रेः सपरीवार-स्तृतीयां प्राप मेखलाम् ॥ ३८ ॥ न तु कोऽपि गिरेस्तस्य, क्लिश्यमानोप्यगाच्छिरः ॥ गम्यं गरुत्मतो मेरु-शृङ्गं किं यान्ति केकिनः? ॥३९॥अथ ते तापसा : सर्वे, स्वतेजोविजितारुणम् ॥ आयान्तं गौतमं प्रेक्ष्या-चिन्तयन्निति विस्मिताः ! ॥ ४० ॥ तपःकृशाङ्गा अपि नो, यत्रारोढुं क्षमा वयम् ॥ गरिष्ठकायस्तत्राय-मारोक्ष्यति कथं यतिः? ॥४१॥ उच्चैर्मुखेषु तेष्वेवं, चिन्तयत्स्वेव गौतमः ॥जङ्घाचारणलब्ध्यार्क - रश्मीनालम्ब्य सञ्चरन् ॥ ४२ ॥ तूर्णं तेषामुपर्यागा-क्षणाच्चागादद्दश्यताम् ।। जवनैः पवनैः प्रेर्य-माणो मेघ इवोच्चकै : ॥ ४३ ॥(युग्मम् ) ताप| सास्ते तु तं प्रोच्चैः, प्रशंसन्तो व्यचिन्तयन् ॥ अस्य शिष्या भविष्यामो - ऽमुष्मादुत्तरतो गिरेः ॥ ४४ ॥ गौतमस्तु गतः शैल- मौलौ | भरतकारितम् ॥ हृतावसादं प्रासाद, दर्शनीयं ददर्श तम् ॥ ४५ ॥ मानवर्णान्वितानादि-जिनादीन् स्थापनाजिनान् ॥ ननाम नित्य| प्रतिमा- प्रतिमांस्तत्र च प्रभुः ॥ ४६ ॥ साक्षादिव जिनांस्तांश्च, दर्श दर्श प्रमोदभाक् ॥ सन्तुष्टावातिसन्तुष्ट-चेता इति गणाधिपः UTR-2 ॥७६॥ १ - शाश्वतप्रतिपातुल्यान्!
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy