SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥३१७॥ १५ d ददौ कन्याशतं नृपः ॥ पुण्यैरगण्यैर्जामाता प्राप्यते खलु तादृशः ! ॥ ६३ ॥ क्रीडंस्ताभिः समं नायं, व्यस्मरन्मदनावलीम् ॥ भृङ्गो लवंगीभोगेऽपि किं विस्मरति पद्मिनीम् ? ॥६४॥ खेचर्या वेगवत्या स निशि सुप्तोऽन्यदा हृतः ॥ प्रबुद्धो बद्धमुष्टिस्तां, किं रे ! मां हरसीत्यवक् ॥ ६५ ॥ साप्यूचे शूर ! हरण - कारणं शृणु मा कुपः ! ॥ वैताढ्य - पर्वते सूरो-दयं नामास्ति सत्पुरम् ॥६६॥ तत्र चेन्द्रधनुःसंज्ञो विद्यते खेचरेश्वरः ॥ श्रीकान्ता तद्वधूः पुत्री, जयचन्द्रा तयोः शुभा ॥६७॥ पुरुषद्वेषिणी साभू-दप्राप्य प्रवरं वरम् ॥ दुःखाकरो हि दक्षाणां स्त्रीणां हीनः पतिर्भुशम् ॥६८॥ पटेषु भरतस्थानां, रूपाण्यालिख्य भूभुजाम् ॥ अदर्शयमहं तस्यै, न किमप्यरुचत्परम् ॥६९॥ पटे मयाऽन्यदा रूपं तवालिख्य प्रदर्शितम् ॥ तस्याश्चित्तमयस्कान्त- मणिर्लोहमिवाकृषत् ! ॥७०॥ चेदयं दयितो न स्यात्, तदाहमनलं श्रये ॥ इति प्रत्यशृणोत्साऽथ मत्वा त्वां खलु दुर्लभम् ! ॥ ७१ ॥ तस्यास्तस्यां प्रतिज्ञायां ज्ञापितायां मया रयात् ॥ त्वामानेतुं तत्पितृभ्यां हृष्टाभ्यां प्रहितास्म्यहम् ॥७२॥ तमानये न चेत्तर्हि, वह्नावह्नाय याम्यहम् ॥ तामाश्वासयितुं कन्या- मित्युक्त्वेहागमं ततः ॥ ७३ ॥ तां पद्मीनीं मोदयितुं, नये त्वां च प्रभाकरम् ॥ तस्या मम च जीवातु-स्त्वमेवासि प्रसीद तत् ! ॥७४॥ साऽथ तं तदनुज्ञाता, निन्ये सूरोदयं पुरम् ॥ विभाते भास्करमिव तं चेन्द्रधनुरार्च्चयत् ॥ ७५ ॥ विदधे येन धात्राऽसौ तस्य स्यामनृणा कथम् ? ॥ ध्यायन्तीमित्युपायंस्त जयचन्द्रां ततश्च सः ॥ ७६ ॥ तस्याश्च मातुलसुतौ गङ्गाधरमहीधरौ ॥ विद्याधरौ महाविद्यौ तद्वि अष्टादशमध्ययनम् ( १८ ) महापद्म चक्रिकथा ६३-७६ UTR-2 ॥३१७॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy