SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अध्य. ९ उत्तराध्ययनसूत्रम् ॥७३॥ भवान् स्वयम् ।। करोति कार्यं चेदन्य-दोषप्रेक्षणलक्षणम् ॥१०॥ किमर्थं तर्हि राज्यस्थो-धिकृतान् कृतवान् भवान् । परापराधवीक्षायै, क्रियन्ते हि नियोगिनः ॥ ११ ॥ इदानीं तु नियोगित्वं, निःसङ्गस्योचितं न ते ॥ तच्छ्रुत्वा नमिमित्यूचे, नग्गतिर्गतदुगतिः ॥ १२ ॥ यदि सर्वं विहाय त्वं, मोक्षायोद्यच्छसे मुने ! ॥ तदा किमर्थमन्यस्य निन्दां वितनुषे वृथा ? ॥ १३ ॥ करकण्डुरथाचख्यौ, मोक्षाकांक्षिषु भिक्षुषु ॥ वारयन्नहितं साधु-निन्दक: कथ्यते कथम् ? ॥ १४ ॥ या रोषात् परदोषोक्तिः सा निन्दा खलु कथ्यते ॥ सा तु कस्यापि नो कार्या, मोक्षमार्गानुसारिभिः ॥ १५ ॥ हितबुध्या तु या शिक्षा, सा निन्दा नाभिधीयते ।। अत एव च सान्यस्य, कुप्यतोपि प्रदीयते ॥१६॥यदाएं-"रूसऊवा परो मा वा वीसंवा परिअत्तउ॥भासिअव्वा हिआ भासा सपक्खगुणकारिआ "॥ १७ ॥ अनुशिष्टिमिमां शिष्टा-मुदितां करकण्डुना ॥ ते त्रयोप्युररीचक्रु-विजहश्च यथारुचि ॥ १८ ॥ पुष्पोत्तरविमानात्ते, चत्वारोपि सहच्युताः ॥ सहोपात्तव्रता मोक्षं, सहैवासादयन् क्रमात् ॥ १९ ॥ इति प्रत्येकबुद्धानां, चतुर्णां शमशालिनाम् ॥ सम्प्रदा - यानुसारेण, चरितं परिकीर्तितम् ॥ २० ॥ कल्याणकारि नरकारि विकारहारि, प्रत्येकबुद्धचरितं दुरितापहारि ॥ इत्थं निशम्य शम-शाखिघनानुकारि, भव्या भजन्तु सुकृतं भुवनोपकारि ।। २१ ॥ इति समाप्ता प्रसङ्गागता प्रत्येकबुद्धवक्तव्यता ॥ ॥ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ नवमाध्ययनं सम्पूर्णम् ॥९॥ UTR-2 ॥७३॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy