SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अध्य. १० उत्तराध्ययनसूत्रम् ॥ ७४ ।। ॥अथ दशमाध्ययनम् ॥ ॥अहम् ॥ व्याख्यातं नवमाध्ययनं, सम्प्रति द्रुमपत्रकाख्यं दशममारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने धर्मम्प्रति निष्कम्पत्वमुक्तं तच्चानुशासनादेव स्यादिति अनुशासनाभिधायकमिदमारभ्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्तावनार्थं गौतम प्रति श्रीमहावीरेणेदमुक्तमिति इहोपयोगिनी गौतमवक्तव्यता तावत्काचिदुच्यते । तथाहि अत्राभूद्धरतक्षेत्रे, स्वर्लक्ष्मीनिर्जितालका ॥ समग्रनगरीप्रष्ठ, पृष्ठचम्पाभिधा पुरी ॥१॥ तस्यां सालमहासाल-नामानौ सोदरावुभौ ॥ राजराजिगुणौ राज-युवराजौ बभूवतुः ॥ २ ॥ जामियशोमती संज्ञा, पिठरो भगिनीपतिः ॥ गागिलि गिनेयश्चा-मेयबुद्धिस्तयोरभूत् ॥ ३ ॥ तस्याञ्च पुर्यामन्येद्यु-विहरन् जगदीश्वरः ॥ श्रीवीरः समवासार्षी-द्भव्याम्भोजनभोमणिः ॥ ४ ॥ ततः | सालमासालौ, सार्वं वन्दितुमुद्यतौ ॥ महा जग्मतुः प्राज्य-प्रमोदभरमेदुरौ ॥५॥जिनं नत्वा च सद्भक्त्या यथास्थानं न्यषीदताम् ।। सर्वज्ञोपि जगौ धर्म, संसाराम्भोधितारकम् ॥ ६ ॥ तमाकर्ण्य विरक्तात्मा, जिनं नत्वा गृहं गतः ॥ राज्यमेतद्गृहाणेति, साल: सोदरमब्रवीत् ॥७॥ सोवादीन्मम राज्येन, कृतं दुर्गतिदायिना ॥ प्रव्रजिष्याम्यहमपि, भवोद्विग्नस्त्वया समम् ॥ ८ ॥ जामेयं गागिलि राज्ये, स्थापयित्वा महोत्सवैः ॥ ततः सालमहासालौ, प्राताजिष्टां जिनान्तिके ॥ ९ ॥ विहरन्तौ च तौ नित्यं, श्रीवीरस्वामिना समम् ।। एकादशाङ्गीमन्यूनां, पेठतुः शुद्धधीनिधी ॥ १०॥ अन्यदा प्रस्थितं चम्पां, प्रति राजगृहात् पुरात् ॥ प्रभुं सालमहासालौ प्रणिपत्येत्यवोचताम् ॥ ११ ॥ नगर्यां पृष्टचम्पायां, प्रतिबोधयितुं निजान् ॥ स्वामिन्नावां यियासावो, यद्यनुज्ञां प्रयच्छसि ॥ १२ ॥ UTR-2 I७४॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy