________________
उत्तराध्य
यनसूत्रम् ॥ ७९ ॥
प्रासुकैर्भेषजादिभिः ॥ चिकित्सां कारयिष्यामि, कण्डरीकमहामुनेः ॥ ८४ ॥ तद्यूयं मे यानशाला मलङ्कुरुत सूरयः ! ॥ इत्युक्ता भूभृता तेऽपि तत्र गत्वावतस्थिरे ॥ ८५ ॥ चिकित्सका नृपादिष्टा, विविधैरौषधादिभिः । कण्डरीकं क्रमाच्चक्रु - र्निरामयकलेवरम् ॥ ८६ ॥ ततो भूजानिमापृच्छ्य, स्थविरा व्यहरंस्ततः ॥ श्रमणानां हि नैकत्र, स्थितिरायतिशोभना ॥ ८७ ॥ कण्डरीकस्तु नाचालीद्राजभोज्येषु गृद्धिमान् ॥ जिह्वेन्द्रियं हि जीवानां मनोवदुर्जयं स्मृतम् ॥ ८८ ॥ तच्च ज्ञात्वा पुण्डरीक-स्तत्रागत्यानमच्छिरः ॥ तं त्रिप्रदक्षिणीकृत्या वादीदेवं कृताञ्जलिः ॥ ८९ ॥ धन्यस्त्वं कृतकृत्यस्त्वं, त्वया सफलितं जनुः ॥ सन्त्यज्य राज्यभार्यादि, सर्वं यत्स्वीकृतं व्रतम् ! ॥ ९० ॥ अहं त्वधन्यो निःसारं भूरिदुःखजलार्णवम् ॥ रिपुतस्करदायादा धीनं विद्युल्लताचलम् ॥ ९१ ॥ विपाककटुकानित्यं, विषयास्वादसुन्दरम् ॥ अप्यवश्यं परित्याज्यं राज्यं न त्यक्तुमीश्वरः ॥ ९२ ॥ ( युग्मम् ) इत्येकशो नृपेणोक्तः मुनिर्मौनमाश्रयत् ॥ द्विस्त्रिरुक्तस्तु मन्दाक्ष - विलक्षो व्यहरत्ततः ॥ ९३ ॥ किञ्चित्कालं व्यहार्षीच्च, गुरुभिः सममुन्मनाः ॥ दुरावे इवासाध्यः, प्राणिनां हि दुराशयः ॥ ९४ ॥ अन्यदा तु व्रतोद्विग्नः परिभ्रष्टशुभाशयः ॥ कण्डरीको गुरुन् मुक्त्वा, जगाम नग निजाम् ॥ ९५ ॥ तत्र भूपगृहोपान्त-स्थितोऽशोकतरोरधः ॥ न्यषीदद्गतसर्वस्व इव चिन्ताशताकुलः ॥ ९६ ॥ तदा च पुण्डरीकस्य, धात्री तत्र समागता । शोकाम्भोनिधिमग्नं तं दृष्ट्वा राज्ञे न्यवेदयत ॥ ९७ ॥ ततो गुणोऽपि दोषाय, जात इत्यवधारयन् ॥ सान्तःपुरपरीवारो, भूपस्तत्राययौ द्रुतम् ॥ ९८ ॥ तं त्रिप्रदक्षिणीकृत्य, नत्वा चोवाच पूर्ववत् ॥ स त्वधान्मौनमेवैकं, दुष्टग्रहगृहीतवत् ॥ ९९ ॥ भूयो भूयोऽभ्यधात्को हि, हित्वा स्वर्नरकं श्रयेत् ॥ काचखण्डमुपादत्ते, को वा त्यक्त्वा मरुन्मणिम् ? ॥ १०० ॥ प्राज्यं साम्राज्यमुत्सृज्य, को वा वाञ्छति निःस्वताम् ॥ को वा मुक्त्वा व्रतं भोगान्, कांक्षति क्षणभङ्गुरान् ॥ १०१ ॥ सत्यप्येवं यदि स्यात्ते, भोगेच्छा
UTR-2
अध्य. १०
॥७९॥