________________
उत्तराध्ययनसूत्रम् ॥ ८० ॥
तर्हि कथ्यताम् ॥ ददात्यनुचितं वस्तु, प्रार्थनामन्तरा हि कः ? ॥ १०२ ॥ भोगवाञ्छा ममास्तीति, हित्वा व्रीडां व्रती जगौ ॥ ततस्तस्मै नृपो राज्यं, पापभारमिवार्पयत् ॥ १०३ ॥ लोचं कृत्वा चतुर्यामं, धर्मं च प्रतिपद्य सः ॥ कण्डरीकात्साधुलिङ्गं सुखपिण्डमिवाददे ॥ १०४ ॥ गुरूपान्ते परिव्रज्य, भोक्ष्येऽहमिति निश्चयी ॥ सोऽचालीद्दिशमुद्दिश्य, तत्पादाम्भोजपाविताम् ॥ १०५ ॥ कण्डकस्तु तत्रैव, दिने सुबहुभोजनम् ॥ चखादादृष्टकल्याण, इवोच्चैर्गृद्धिमुद्वहन् ॥ १०६ ॥ प्रणीतमतिमात्रं तन्मन्दाग्नेस्तस्य भोजनम् ॥ अजीर्यमाणं विदधे, वेदनामतिदारुणाम् ॥ १०७ ॥ पापोऽयमिति नीरागैः, सचिवाद्यैरुपेक्षितः ॥ सोऽथ व्यथानदीपूरे प्लवमानो व्यचिन्तयत् ॥ १०८ ॥ सम्प्राप्तव्यसनं नाथ-मुपेक्षन्तेऽत्र ये जडाः ॥ विपक्षेभ्योतिरिच्यन्ते, सेवका अपि ते ध्रुवम् ॥ १०९ ॥ ततोऽहं यदि जीवामि तदोपेक्षाविधायिनः ॥ सपुत्रपौत्रान् मन्त्र्यादीन् घातयाम्यखिलानपि ! ॥ ११० ॥ रौद्रध्यानमिति ध्यायन्, क्रूरस्तन्दुलमत्स्यवत् ॥ राज्यादौ मूर्च्छितो बाढं, जम्बाल इव शूकरः ॥ १११ ॥ सोऽभूद् विपद्य ज्येष्ठायु-र्नारकः सप्तमावनौ ॥ अन्ते हि यादृशी बुद्धि- स्तादृश्येव गतिर्भवेत् ॥ ११२ ॥
पुण्डरीकोथ सम्प्राप्य, गुरून् धर्मं प्रपद्य च ॥ शीतरूक्षारसाहारैश्चकाराष्ट्रमपारणम् ॥ ११३ ॥ तैश्चाहारैरभूत्तस्य, देहसन्देह - कृद्व्यथा ॥ तथापि स्थैर्यमास्थाय स राजर्षिरदोऽवदत् ॥ ११४ ॥ नमोर्हद्भ्यो भगवद्भ्यः सम्प्राप्तेभ्यः परम्पदम् ॥ सिद्धेभ्यः स्थविरेभ्यश्च साधुभ्यश्च नमो नमः ॥ ११५ ॥ गुरूपान्ते मया पूर्व-मुपात्तास्ति चतुर्व्रती ॥ इदानीमपि संसारार्णवनावं श्रयामि ताम् ॥ ११६॥ जिनादीनामदीनोहं, शरणं स्वीकरोमि च ॥ प्रान्ते चाभीष्टमप्येतद्व्युत्सृजामि निजं वपुः ॥ ११७ ॥ कृतकृत्य इति प्राप्य, पञ्चत्वं
UTR-2
अध्य. १०
॥८०॥