SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३६६॥ एकोनविंशमध्ययनम् गा३४-३७ मूलम्-सुहोइओ तुम पुत्ता ! सुकुमालो अ सुमज्जिओ । नहुसि पहु तुमं पुत्ता ! सामण्णमणुपालिआ ॥३४॥ व्याख्या-सुखोचितः सुखयोग्यः, सुकुमारः, सुमज्जितः सुष्ठ अभ्यंगनादिपूर्वं मज्जितः स्तपितः, सकलालङ्कारोपलक्षणमेतत् । इह च सुमज्जितत्वं सुकुमारत्वे हेतुः, द्वयञ्चैतत् सुखोचितत्वे, ततो 'नहुसित्ति' नैवासि प्रभुः समर्थः श्रामण्यमनुपालयितुम् ॥३४॥ असमर्थतामेव दृष्टान्तैः समर्थयन्नाहमूलम- जावज्जीवमविस्सामो, गुणाणं तु महब्भरो । गरुओ लोहभारुव्व, जो पुत्तो! होइ दुव्वहो ॥३५॥ व्याख्या-अविश्रामो निरन्तर: गुणानां मुनिगुणानां, तुः पूरणे, महाभरो गरुको लोहभार इव, यः पुत्र ! भवति दुर्वहः, स वोढव्य इति शेषः ॥३५॥ मूलम्-आगासे गंगसोओव्व, पडिसोओव्व दुत्तरो । बाहाहिं सागरो चेव, तरिअव्वो गुणोदही ॥३६॥ व्याख्या-आकाशे गङ्गाश्रोतोवहुस्तर इति योज्यते, लोकरूढ्या चेदमुक्तम् । तथा प्रतिश्रोतोवत्, कोऽर्थः ? यथा प्रतीपजलप्रवाहः शेषनद्यादौ दुस्तरः, बाहुभ्यां 'सागरो चेवत्ति' सागरवच्च दुस्तरो यः, स तरितव्यो, गुणाः ज्ञानाद्यास्त एवोदधिर्गुणोदधिः ॥३६॥ मूलम्- वालुआकवले चेव, निरस्साए उ संजमे । असिधारागमणं चेव, दुक्करं चरित्रं तवो ॥३७॥ UTR-2 ॥३६६॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy