SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ अध्य. १३ उत्तराध्ययनसूत्रम् ॥१६३ ॥ मढौकत गर्जन्, घन इव मुञ्चन् शरासारम् ॥३६८॥ तं च प्रेक्ष्य कुमारः, स्वयमागाद् योद्धमुद्धषितरोषः,॥ प्राज्यबलौ तौ च मिथः, शस्त्रैः शस्त्राणि चिच्छिदतुः ॥३६९॥ ब्रह्मसुतस्याथ करे, तदाययौ चक्रमर्क इव नभसः। स तु तेन द्रुमफलमिव, दीर्घशिरोऽपातयत् पृथिव्याम् ॥३७०॥ जयतादयमुदयदयो, द्वादशचक्रीति वादिनो देवाः ॥ तच्छिरसि कुसुमवृष्टि, तदा व्यधुः समवसरण इव ॥३७१॥ पौरैः पितेव दृष्टो, बन्दिभिरिव जयजयेति वचनपरैः ॥ सोत्सवमविशच्चक्री, काम्पील्यं त्रिदिवमिव मघवा ॥३७२।। नृपतिः प्राक् परिणीताः, पत्नीरानाययत्ततः सकलाः। भरतक्षेत्रं चाखिल- मसाधयत्प्रबलबलकलितः ॥३७३॥ तस्याथ नृपैनिखिलै- रभिषेको द्वादशाब्दिको विदधे ॥ सोथऽगमयत्समयं, समयमिव समं सुखं विलसन् ॥३७४॥ अन्येधुर्वरगीतं, सगीतं तस्य पश्यतः शस्यम् ॥ कृतचित्रपुष्पचित्रं, ददौ कुसुमकन्दुकं दासी ॥३७५।। तं प्रेक्ष्य चक्रवर्ती, दृष्टः क्वापीदृशो मयेत्यन्तः । कुर्वन्नूहं स्मृत्वा, पञ्चभवान्मूर्च्छितो न्यपतत् ॥३७६॥ सम्भ्रान्तैः सामन्तैः, सिक्तश्चन्दनरसैर्गतः स्वास्थ्यम्॥ सौधर्मेऽद्राक्षमहं, कन्दुकमीदृशमिति स बुबुधे ॥३७७॥ पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंश्चक्री ॥ तं ज्ञातुम, चक्रे, सार्धश्लोकं शुचिश्लोकः ॥३७८॥ तथाहि- (“दासा दसण्णे आसी, मिआ कालिंजरे नगे ॥ हंसा मयंगतीराए, सोवागा कासिभूमीए ॥१॥ देवा य देवलोगंमि, आसि अम्हे महिड्ढिआ") पूरयति यो द्वितीयं, श्लोकं तस्मै ददामि राज्यार्धम् ॥ इति चाघोषयदुच्चैः, पुरेऽखिले प्रतिदिनं चक्री ॥३७९॥ राज्यार्थी चक्रे तं, श्लोकं साधु जनोऽखिलः कण्ठे ॥ पूरितवान्न तु कश्चिद्विपश्चिदपि पश्चिमश्लोकम् ॥३८०॥ इतश्च- जीवश्चित्रस्य महेभ्य - नन्दनः पुरिमतालसंज्ञपुरे । जातिस्मरणाद् ज्ञात्वा, पूर्वभवा*- पूरितवान्न तु कश्चि - पश्चिममर्द्ध द्वितीयस्य ॥ इति “घ" संज्ञकपुस्तके ॥ UTR-2 ॥१६३॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy