SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ अध्य. १३ उत्तराध्ययनसूत्रम् ॥१६४॥ नाददे दीक्षाम् ॥३८१॥ ग्रामादिषु विहरंस्तं, सदलं श्लोकं निशम्य लोकेभ्यः ॥ प्राग्भवबान्धवबोधन - कृते स काम्पील्यनगरमगात् ॥३८२॥ तत्रारामे नाम्ना, मनोरमे संस्थितः स साधुस्तम् ॥ सार्धं श्लोकं श्रुत्वा- रघट्टिकमुखाददोऽवादीत् ॥३८३॥ ("इमा णो छट्ठिआ जाई, अन्नमन्नेण जा विणा") इति तेनोक्तमधीत्या - रघट्टिकः श्लोकपश्चिमदलं तत् ॥ गत्वा सपदि नृपाग्रे, श्लोकयुगलमब्रवीत् सकलम् ॥३८४॥ स्नेहावेशान्मूर्छा, गतस्ततोऽपतदिलापतिरिलायाम् ॥ तच्च प्रेक्ष्यानभ्रा- ऽशनिपातमिवाक्षुभत् परिषत् ॥३८५॥ जातेदृशी दशा नः, प्रभोगिरास्येति परिजनः कोपात् । तमथारघट्टिकं मुहु- रताडयत् पार्णािघाताद्यैः ॥३८६॥ न मयायमपूरि ततो, मा मां ताडयत यूयमिति विलपन् ॥ मुक्तः स कोऽस्य पूरक, इति पृष्टश्चाब्रवीदेवम् ॥३८७॥ श्लोकमपूरयदपरं, मुनिर्मदरघट्टनिकटभूमिष्ठः ॥ प्रापमहं तु व्यसनं, मुधैव राज्यस्पृहाग्रहिलः! ॥ ३८८॥ अथ चन्दनरसपूरैः, संसिक्तो व्यक्तचेतनश्चक्री ॥ विज्ञातमुनिवरागम - वृत्तः स्नेहोल्लसच्चित्तः ॥३८९॥ दत्वारघट्टिकाय, द्युम्नं बहु पारितोषिकं सद्यः ॥ सान्त:पुरपरिवारः, सोत्कण्ठोऽगात्तदुद्यानम् ॥३९० ॥(युग्मम् ) नत्वा च तं मुनिवरं, बाष्यजलाप्लुतविलोचनश्चक्री ॥ निषसाद यथास्थानं, प्राच्यस्नेहाधिकस्नेहः।। ३९१ ।। ( इह ब्रह्मदत्तहिण्डिमाश्रित्य श्रीउत्तराध्ययनसूत्रनिर्युक्तौ कश्चिद्विशेषो दृश्यते, स तु तत एवावधार्यः) इत्युक्तश्चित्र-सम्भूतयोः पूर्ववृत्तान्ताख्यानेन सूत्रत्रयभावार्थः ॥३॥तयोमिथः सम्भाषणं तु सूत्रसिद्धमित्यधुनाऽवशिष्यमाणं तदेव व्याख्यायते । तत्र चक्री यदूचे तत्सम्बन्धपुरस्सरं सूत्रचतुष्केनाहमूलम्- चक्कवट्टी महिड्डीओ, बंभदत्तो महायसो । भायरं बहुमाणेणं, इमं वयणमब्बवी ॥४॥ UTR-2 ॥१६४॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy