________________
उत्तराध्ययनसूत्रम् ॥२७२॥
अष्टादशमध्ययनम् सनत्कुमारचक्रिकथा२४०-२५३
तथाप्यङ्गप्रतीकार-मकुर्वन्तं तमन्यदा ॥ पुरुहूतः पुरः स्वाहा-भुजामेवमवर्णयत् ॥२४०॥ अहो! सनत्कुमारोऽसौ, धैर्याधरितभूधरः ॥ त्यक्त्वा चक्रिश्रियं भार-मिवोगं तप्यते तपः! ॥२४१॥ रोगानलाब्दमालासु, लब्धास्वपि हि लब्धिषु ॥ चिकित्सति यतिः काय-निःस्पृहो नायमामयान् ! ॥२४२॥ अश्रद्दधानौ तद्वाक्यं, तावेव त्रिदशौ ततः॥ अभिरूपभिषग्रूपौ, मुनिरूपमुपेयतुः ॥२४३॥ तं चेत्यवोचतां साधो!, यदि त्वमनुमन्यसे ॥ धर्मवैद्यौ चिकित्साव-स्तदावां तेऽगदान्मुदा ॥२४४॥ भूयो भूयः पुरोभूय, ताभ्यामित्युदितो व्रती ॥ उवाच वाचां चित्तस्थं, तत्त्वामृतमिवोगिरन् ॥२४५॥ चिकित्सथो युवां कर्म-रोगान् किं वा वपुर्गदान् ? तावूचतुश्चिकित्साव, आवां कायामयान्मुने! ॥२४६॥ ततो लिप्त्वाङ्गुली पामा-शीर्णां निष्ठीवनेन सः ॥ स्वर्णवर्णसवर्णाभां, व्यधादेवमुवाच च ॥२४७॥ आतङ्कान्तं नयाम्येता-दृशांस्तु स्वयमप्यहम् ॥ चिकित्सा क्रियते कर्म-रुजां चेत्कार्यते तदा! ॥२४८॥ हन्तुं कर्मामयान् शक्ता, यूयमेवेतिवादिनौ ॥ विस्मितौ तौ ततश्चक्रि-मुनिं नत्वैवमूचतुः ॥२४९॥ लब्धलब्धिरपि व्याधि-व्यथा धीरस्तितिक्षते ॥ सनत्कुमारराजर्षि-रिति त्वां हरिरस्तवीत् ॥२५०॥ ततस्ते रूपवीक्षार्थं , यथावामागतौ पुरा ॥ तथा सत्त्वपरीक्षार्थ-मधुनापि समागतौ ॥२५२॥ दृष्टं च तदपि स्पष्टं, सुराचल इवाचलम् ॥ इत्युक्त्वा तं च नत्वा तौ, तिरोधत्तां सुधाशनौ ॥२५२॥ कौमारे मण्डलित्वे च, लक्षार्धं शरदामभूत् ॥ लक्षं च तस्य चक्रित्वे, श्रामण्येऽपि तदेव हि ॥२५३॥ वर्षलक्षत्रयीमान-मतिवाह्यायुरित्ययम् ॥ चकारानशनं प्रान्ते, सम्मे
UTR-2
॥२७२॥