SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३२॥ अष्टादशमध्ययनम् (१८) महापद्मचक्रिकथा १२१-१३४ ॥१२०॥ पद्माग्रजः स इति त-गिराऽसौ शान्तिमेष्यति ॥ यातु कोऽपि तमानेतुं तद्विद्यालब्धिमान्मुनिः ॥१२१॥ ऊचेऽथान्यो यतियॊम्ना, गन्तुं तत्रासम्यहं क्षमः ॥ न त्वाऽऽगन्तुं ततो ब्रूत, यदि कार्यं मयास्ति वः ॥१२२॥ विष्णुरेव समानेता, त्वामित्युक्तेऽथ सूरिभिः ॥ उत्पत्य नभसा विष्णु-मुपागात्स मुनिः क्षणात् ॥१२३॥ तं चायान्तं वीक्ष्य दध्या-विति विष्णुर्महामुनिः ॥ सङ्घकार्यं महन्नून-मस्ति किञ्चिदुपस्थिम् ॥१२४॥ इहागच्छेदसौ साधुवर्षासु कथमन्यथा ? ॥ ध्यायन्तमिति तं साधु-रुपेत्य प्रणनाम सः ॥१२५॥ तेनागमनहेतौ च, प्रोक्ते विष्णुमुनिद्रुतम् ॥ तं गृहीत्वा गजपुरे, गत्वा च प्राणमद् गुरून् ॥१२६॥ अगाच्च नमुचेः पार्थे , बहुभिर्मुनिभिः संमम् ॥ विना नमुचिमुर्तीशा-दिभिः सर्वैरनामि सः ॥१२७॥ ततो धर्मोपदेशादि-पूर्वमित्यवदत्स तम् ॥ वर्षाकालं यावदत्र, वसन्तु मुनयः पुरे ॥१२८॥ स्वतोप्येते हि तिष्ठन्ति, नैकत्र समयं बहुं ॥ वर्षासु तु भुवो भूरिजन्तुत्वाद्विहरन्ति न ॥१२९॥ महत्यस्मिन्पुरे भिक्षा-वृत्तिभिः प्रचुरैरपि ॥ अस्मादृक्षैः संवसद्भिः, क्षतिः का ? नाम ते कृतिन् ! ॥१३०॥ पुरा हि मुनयो भूपैः, प्रणता भरतादिभिः ॥ कुरुषे न तथा त्वं चे-निर्वासयसिः तान् कुतः ॥१३१॥ श्रुत्वेति नमुचिः क्रुद्धो-ऽवादीतिक पुनरुक्तिभिः ? ॥ निग्रहीष्यामि वो नूनं, पञ्चाहोपरि वीक्षितान् ॥१३२॥ विष्णुर्जगौ पुरोद्याने, वसन्त्वेते महर्षयः ॥ ततः क्रुधाऽभ्यधान्मंत्री, वाक्यैः कर्करकर्कशैः ॥१३३॥ आस्तामुद्यानं पुरं वा, मम राज्येऽपि सर्वथा ॥ पाखण्डिपाशैः पापाशै-न स्थेयं श्वेतभिक्षुभिः । ॥१३४॥ तन्मे UTR-2 ॥३२१॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy