SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥३२२ ॥ ३ मुञ्चत राज्यं द्राग्, यदि वः प्राणितं प्रियम् ॥ रुष्टो विष्णुरथोचेऽङ्घ्रि - त्रयस्थानं तु देहि नः ! ॥ १३५ ॥ अथाख्यनमुचिर्दत्तं मया वस्त्रिपदीपदम् ॥ किन्तुं तस्माद्बहिर्यो वः, स्थाता स द्राग् हनिष्यते ॥ १३६ ॥ प्रावर्त्तत ततः कोपा - विष्टो विष्णुः प्रवर्धितुम् ॥ मौलिकुण्डलमालाढ्यः पविचापकृपाणभृत् ॥१३७॥ स्फारान्विमुञ्चन्फूत्कारान्, कल्पान्तपवनोपमान् ॥ काश्यप कम्पयन्पाद - दर्दरैर्निखिलामपि ॥ १३८ ॥ उल्लालयन्पयोराशीन्, शैलशृङ्गाणि पातयन् ।। धात्रीफलौघवज्ज्योति-श्चक्रमप्यपसारयन् ॥१४०॥ क्षोभयन्विविधै रूपैर्देवदानवमानवान् ॥ वर्धमानोऽमानशक्तिः, सोऽभून्मेरुसमः क्रमात् ॥ १४०॥ [ त्रिभिर्विशेषकम् ] प्रपात्य नमुचिं पृथ्व्यां पूर्वापरसमुद्रयेाः ॥ पादौ विन्यस्तवान् विष्णु-रलम्भूष्णुर्जगज्जये ॥१४१ ॥ त्रिलोकिक्षोभमालोक्य शक्रेण प्रहितास्तदा ॥ इति कर्णान्तिके तस्याऽप्सरसः सरसं जगुः ॥ १४२ ॥ क्रोधो धर्मद्रुमज्वाला-जिह्वः स्वपरदाहकः ।। स्वार्थनाशं विधत्तेऽत्र दत्ते मुत्र च दुर्गतिम् ॥ १४३ ॥ तच्छान्तरसपीयूषं, निरपायं निपीयताम् ॥ इत्थं जगुः पुरस्तस्य ननृतुश्च प्रसत्तये ॥१४४॥ महापद्मोऽपि तत्रागात्, शङ्कातङ्काकुलस्तदा ॥ इलातलमिलन्मौलि स्तं च नत्वैवमब्रवीत् ॥ १४५ ॥ श्रीसंघाशातनां मंत्रि - पाशेनानेन निर्मिताम् ॥ न ज्ञापितोऽस्मि केनापी-त्यज्ञासिषमहं न हि ॥ १४६ ॥ कृतस्वान्यो पतापस्य, पापस्याऽमुष्य मन्तुना ।। प्राणसन्देहमारूढं त्रायस्व भुवनत्रयम् ॥ १४७ ॥ इत्यन्येपि नृपा देवा-सुराः संघस्तथाऽखिलः ॥ तं मुनिं विविधैर्वाक्यैः सान्त्वयामासुरुच्चकैः ॥ १४८ ॥ मौलिस्पृष्टक्रमांस्तांश्च वीक्ष्य विष्णुर्व्यचि अष्टादशम ध्ययनम् महापद्म चक्रिकथा १३५-१४७ ॥३२२ ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy