SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अध्य. ९ उत्तराध्ययनसूत्रम् ॥५६॥ यस्य स स्वाख्यातधर्मो मुनिः तस्य कलां भागमति अर्हति षोडशी षोडशांशसमोपि न स्यादिति भावः । ततो यत्स्वाख्यातं न स्यात् तद्घोरमपि धर्मार्थिना नानुष्ठेयं, आत्मघातादिवत् । स्वाख्यातश्च मुख्यतया मुनिधर्म एव, न तु गृहाश्रमस्ततो गृहाश्रमादयमेव श्रेयानिति । ननु ? पूर्वसूत्रे इहैव 'पोसहरओ भवाहीति' वाक्येन देशविरतेः कर्तव्यता शक्रेणोक्ता, देशविरतश्च बालपण्डित उच्यते , 'समणोवासया बालपंडिआ' इति वचनात्, तत्कथमिह बालशब्देन देशविरतो व्यपदिष्ट इति चेदुच्यते-देशविरतस्य बालपण्डितत्वे सत्यपि एकादशाविरतिमत्तापेक्षया बाल्यांशस्य प्राधान्यविवक्षयैवमुक्तं सम्भाव्यते । दृश्यते हि समये सास्वादनवतां ज्ञानांशवत्त्वेऽपि तत्प्राधान्यविवक्षया ज्ञानित्वव्यपदेश इति सूत्रार्थः ॥४४॥ मूलम् - एअमट्टं निसामित्ता हेउकारणचोईओ । तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥ ४५ ॥ ___ व्याख्या -- पुनर्नीरागतामेव परीक्षितुमदोऽवददिन्द्रः ॥४५॥ मूलम्--हिरण्णं सुवण्णं मणिमुत्तं, कंसं दूसं च वाहणं। कोसं वड्डावईत्ता णं तओ गच्छसि खत्तिआ ! ॥४६॥ व्याख्या--हिरण्यं घटितस्वर्णं, सुवर्ण ततोऽन्यत्, मणयश्चन्द्रनीलाद्या मुक्ताश्च मौक्तिकानि मणिमुक्त, कांस्य कांस्यभाजनादि, दुष्यं वस्त्रं, चकार: स्वगतानेकभेदसूचकः, वाहनं रथाश्वादि, कोशं भाण्डागारं, वर्धयित्वा वृद्धि नीत्वा ततो गच्छ क्षत्रिय!। अयंभाव:यो यः साकांक्षः स स धर्मानुष्ठानायोग्यः, साकांक्षश्च भवान्, आकांक्षणीयस्वर्णादिवस्तूनां सम्पूर्णत्वाभावादिति सूत्रार्थः ॥४६॥ UTR-2 ॥५६॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy