SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ अध्य. ९ उत्तराध्ययनसूत्रम् ॥५५॥ | दानानि प्राण्युपमर्दहेतुत्वात्सावधान्येव सावद्यत्वाच्च यागादीनि न प्राणिप्रीतिकराणीति भाव इति सूत्रार्थः ॥४०॥ मूलम् - एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥४१॥ व्याख्या - प्राग्वन्नवरं जिनधर्मस्थैर्यमवधार्य व्रतं प्रति दाढ्यं परीक्षितुमिदमाचचक्षे हर्यश्वः ॥४१॥ मूलम् - घोरासमं चइत्ता णं, अन्नं पत्थेसि आसमं । इहेव पोसहरओ, भवाहि मणुआहिवा! ॥४२॥ ___व्याख्या - घोरोऽत्यन्तदुरनुचर: स चासावाश्रमश्च घोराश्रमो गार्हस्थ्यं, तस्यैवाल्पसत्त्वैर्दुष्करत्वात् । उक्तञ्च-"गृहाश्रमपरो धर्मो, न भूतो न भविष्यति ॥ पालयन्ति नराः शूराः, क्लीबा: पाषण्डमाश्रिताः ॥९॥" तं त्यक्त्वा अन्यं प्रार्थयसे ? आश्रमं दीक्षालक्षणं, नेदं हीनसत्त्वोचितं भवादृशां युक्तं । तर्हि किं युक्तमित्याह-इहास्मिन्नेव गृहाश्रमे स्थित इति गम्यते, पौषधोऽष्टम्यादितिथिषु व्रतविशेषस्तत्र रतः पौषधरतो भव हे मनुजाधिप ! अणुव्रताधुपलक्षणञ्चैतत्, अस्यैवोपादानं तु पौषधदिनेष्ववश्यम्भावात्तपोनुष्ठानख्यापकं । इह च यद्यद्घोरं तत्तद्धर्मार्थिनाऽनुष्ठेयं, घोरश्चायं गृहाश्रम इति घोरपदेन सूचितमिति सूत्रार्थः ॥४२॥ मूलम् - एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी॥ ४३॥ मूलम् - मासे मासे उ जो बालो, कुसग्गेणं तु भुंजए । न सो सुअक्खायधम्मस्स, कलं अग्घइ सोलसिं ॥४४॥ व्याख्या-मासे मासे एव तुशब्दस्यैवकारार्थत्वान्नत्वर्धमासादौ यः कश्चिद्बालो निविवेकः कुशाग्रेणैव दर्भाग्रेणैव भुक्ते, न तु कराडल्यादिभिः । न नैव स तादृशतपोनुष्ठायी, सुष्ठु शोभन: सर्वसावधविरतिरूपत्वादाख्यातस्तीर्थकरैः कथितः स्वाख्यातो धर्मो UTR-2 ॥५५॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy