SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अध्य.९ उत्तराध्ययनसूत्रम् ॥५४॥ न्द्रियादि उपलक्षणत्वान्मिथ्यात्वादि च आत्मनि जीवे जिते जितं, ततो बाह्यारिजयमुपेक्ष्यात्मन एव जये प्रवृत्तोम्यहमिति सूत्रत्रयार्थः॥३६॥ | मूलम्-एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥ ३७ ॥ व्याख्या -- स्पष्टं, नवरमेतावता तस्य रागद्वेषाभावं निश्चित्याधुना जिनधर्मस्थैर्यं परीक्षितुमिन्द्र इदमवादीत् ॥ ३७ ॥ मूलम्--जइत्ता विउले जण्णे, भोइत्ता समणमाहणे । दच्चा भुच्चा य जटाय, तओ गच्छसि खत्तिआ! । ३८ व्याख्या-- 'जइत्तत्ति' याजयित्वा विपुलान् विस्तीर्णान् यज्ञान्, भोजयित्वा श्रमणब्राह्मणान्, दत्वा द्विजादिभ्यो गोभूमिस्वर्णादि, भुक्त्वा च मनोज्ञशब्दादीन्, इष्टवा च स्वयं यागान्, ततो गच्छ क्षत्रिय ! अनेन यद्यत् प्राणिप्रीतिकरं तत्तद्धर्माय, विप्रादिप्राणिप्रीतिकरञ्च यागादि इति सूचितमिति सूत्रार्थः ॥ ३८॥ मूलम्--एअमढं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३९ ॥ मूलम्--जो सहस्सं सहस्साणं, मासे मासे गवं दए । तस्सावि संजमो सेओ, अदितस्सावि किंचणं ॥ ४० ॥ व्याख्या--यः सहस्रं सहस्राणां दशलक्षाणीत्यर्थः, मासे मासे गवां दद्यात्, तस्याप्येवंविधदातुरपि संयमो हिंसाद्याश्रवविरमणात्मकः श्रेयानतिप्रशस्यः, अददतोपि किञ्चन स्वल्पमपि वस्तु । एवञ्च संयमस्य प्रशस्यतरत्वं वदता यज्ञादीनां सावद्यत्वमर्थात् ज्ञापितं । यदुक्तं याज्ञिकैः- " षट् शतानि नियुज्यन्ते, पशूनां मध्यमेहनि ॥ अश्वमेधस्य वचना-न्यूनानि पशुभिस्त्रिभिः ॥१॥" ततः पशुहिंसात्मकत्वात्सावद्या एव यागाः । तथा दानान्यपि अशनादिनां धर्मोपकरणानाञ्च धर्माय भवन्ति, स्वर्णगोभूम्यादीनां तु UTR-2 ॥५४॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy