SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२३८॥ अष्टादशम ध्ययनम् गा. १५-१८ | मूलम् - निहरंति मयं पुत्ता, पिअरं परमदुक्खिआ । पिअरोऽवि तहा पुत्ते, बंधू रायं तवं चरे ॥१५॥ व्याख्या - 'निहरंति' निस्सारयन्ति मृतं पुत्राः पितरं परमदुःखिता अपि, पितरोऽपि तथा पुत्रान् 'बंधूत्ति' बन्धवश्च बन्धूनिति शेषः, ततो राजस्तपश्चरेरासेवेथाः ॥१५॥ मूलम् - तओ तेणऽज्जिए दव्वे, दारे अ परिरक्खिए । कीलंतन्ने नरा रायं, हट्टतुट्ठा अलंकिआ ॥१६॥ व्याख्या - ततो निस्सारणानन्तरं तेन पित्रादिनाऽजिते द्रव्ये सति दारेषु च परिरक्षितेषु क्रीडन्ति तेनैव वित्तेन तैर्दारैश्चेति गम्यं, अन्ये नरा राजन् ! हृष्टतुष्टा अलङ्कृतास्तत्र हृष्टा बहि: पुलकादिमन्तः, तुष्टा आन्तरप्रेमभाजः, अल कृताः विभूषिताः, यतः ईदृशी भवस्थितिस्ततो राजंस्तपश्चरेरिति सम्बन्धः ॥१६॥ मृतस्य का वार्तेत्याहमूलम् - तेणावि जं कयं कम्मं, सुहं वा जइवाऽसुहं । कम्मुणा तेण संजुत्तो, गच्छइ उ परं भवं ॥१७॥ व्याख्या - तेनाऽपि यत्कृतं कर्म शुभं वा यदिवा अशुभं कर्मणा तेन 'उत्तरतुशब्दस्यैवकारार्थस्येह योगात्तेनैव' न तु धनादिना संयुक्तो गच्छति परमन्यं भवं, यत एवं शुभाशुभयोरेवानुयायित्वं ततः शुभहेतुं तप एव चरेरिति सूत्रसप्तकार्थः ॥ १७ ॥ ततश्च - मूलम् - सोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया संवेगनिव्वेअं, समावण्णो नराहिवो ॥१८॥ UTR-2 ॥२३८॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy