SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥ २६ ॥ क्षणे ॥ प्रारेभिरे भुवः खातं, सभान्यासविधित्सया ॥ ७॥ पञ्चमे च दिने तस्माद्भूतलात्तेजसा ज्वलन् ॥ मौलिः प्रादुरभूद्रत्नमयो रविरिवार्णवात् ॥८ ॥ ततः स्थपतयस्तुष्टा- स्तमाचक्षुः क्षमाभृते ॥ सोत्साहः सोत्सवं सोऽपि तत्रागत्य तमाददे ॥९॥ अपूजयच्च स्थपति-प्रभृतीन् वसनादिभिः ॥ तेऽपि चित्रसभां स्वल्प कालेनैव वितेनिरे ॥१०॥ भित्तिन्यस्तैर्मणिगणैर्नित्यालोकां विमा| नवत् ॥ देवीभिरिव माणिक्य- पुत्रिकाभिरधिष्ठिताम् ॥११॥ माणिक्यतोरणैः शक्र - चापैरिव विराजिताम् ॥ पञ्चवर्णमणिव्यूह| रचनाञ्चितकुट्टिमाम् ॥१२॥ सभा सुधर्मा मत्तोऽपि किं रम्येति समीक्षितुम् ॥ उच्चैः कृतं मौलिमिव, शिखरं गुरु बिभ्रतीम् ॥१३॥ विचित्रचित्ररचना - चित्रीयितजगत्त्रयीम् ॥ आह्वयन्तीमिवामर्त्यान्, स्वप्रेक्षायै चलध्वजैः ॥१४॥ प्रविश्य तां सभां भूमि-वल्लभः शोभने दिने ॥ आरोपयन्निजे मौलौ, तं दिव्यं मौलिमुत्सवैः ॥ १५ ॥ [ पञ्चभिः कुलकम् ] तस्य मौलेर्महिम्नाभूद्राज्ञस्तस्याननद्वयम् ॥ रावणस्य यथा हारप्रभावेण दशाननी ॥ १६ ॥ ततो द्विमुख इत्यूचे, तस्य नामाखिलैर्जनैः ।। क्रमाच्च नृपतेस्तस्य, तनयाः सप्त जज्ञिरे ॥१७॥ गुणमाला ततो दध्यौ, सुतेष्वेतेषु सत्स्वपि ॥ एकां छेकां विना पुत्र, मन्ये जन्म निरर्थकम् ॥१८॥ लक्ष्मीरिव सुतापि स्यात्काचित्पित्रोः शुभावहा ॥ ततस्तत्प्राप्तये कञ्चिद्देवमाराधयाम्यहम् ॥ १९ ॥ ध्यात्वेति मदनाख्यस्य, सा यक्षस्योपया| चितम् ॥ चक्रे सुतार्थं स्वल्पं हि सर्वं गौरवमश्नुते ॥ २० ॥ ततस्तस्याः सुताप्येका, जज्ञे सौन्दर्यसेवधिः ॥ मन्दारमञ्जरीप्राप्तिस्वप्नदर्शनसूचिता ॥ २१ ॥ ततो राज्ञा मुदा चक्रे, तस्या जन्ममहो महान् ॥ दत्तं महाविभूत्या च यक्षस्याप्युपयाचितम् ॥२२॥ दत्ता मदनयक्षेण, मञ्जरीस्वप्नसूचिता ॥ इति तामवदत्तातो, नाम्ना मदनमञ्जरी ॥२३॥ क्रमाच्च वर्द्धमाना सा, कल्पवल्लीव नन्दने ॥ जगन्मनोहरं प्राप, यौवनं रूपपावनम् ॥२४॥ आदर्शादिषु संक्रान्तात्, तदीयप्रतिबिम्बतः ॥ अन्यत्र नाभवत्तस्या, रूपस्यानुकृतिः क्वचित् UTR-2 अध्य. ९ ॥२६॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy