________________
उत्तराध्य
अध्य.९
यनसूत्रम्
॥ २७ ॥
॥ २५ ॥ इतश्चोज्जयनीभर्तु-श्चण्डप्रद्योतभूभृतः ॥ दूतः केनापि कार्येण, काम्पिल्यनगरं ययौ ॥१६॥ स च प्रत्यागतोऽवन्तीमिति प्रद्योतमब्रवीत् ॥ स्वामिन् ! काम्पिल्यनाथस्य, जातमस्ति मुखद्वयम् ॥२७॥ राज्ञाथ कथमित्युक्ते, सोऽवादीत्तस्य भूपतेः ॥ मौलिरेकोऽस्ति तस्मिंश्चा-रोपिते स्यान्मुखद्विकम् ॥२८॥ तच्छ्रुत्वा स नृपो जात-लोभः कोटीरहेतवे ॥ वाग्मिनं प्राहिणोदूतं, पार्श्वे द्विमुखभूभुजः ॥२९॥ ततः स गत्वा नत्वा च, पाञ्चालाधीशमब्रवीत् ॥ चण्डप्रतापः श्रीचण्ड-प्रद्योतस्तेऽवदत्यदः ॥३०॥ मुखद्वयकरं मौलि-रत्नं मे प्रेषयेर्दुतम् ॥ नो चेद्रणाय प्रगुणो, भवेः किं भूरिभाषितैः? ॥३१॥ ततोऽवादीनृपो दूत ! यदि प्रद्योतभूधवः ॥ दत्ते मे याचितं किञ्चित्, तदाहमपि तं ददे ॥३२॥ किं वः प्रार्थ्यमिति प्रोक्ते, दूतेन माधवोऽभ्यधात् ॥ रदांशुनिकरान्मिश्र - स्मितविच्छुरिताधरः ॥३३॥ गन्धद्विपोऽनलगिरि - रग्निभीरू रथोत्तमः ॥ राज्ञी शिवाभिधा' लोह -जङ्घ सन्देशहारकः ॥३४॥ स्वराज्यसाराण्येतानि, दीयन्ते तेन चेन्मम ॥ तदा मयापि मुकुटो, राज्यसारः प्रदीयते ! ॥३५॥ गत्वा दूतोऽपि तत्सर्वं, प्रद्योताय न्यवेदयत् ॥ ततो दिदीपे तस्योच्चैः, कोपो वायोरिवानलः ॥३६॥ ततो भेरी प्रयाणार्थं, प्रवाद्योज्जयनीपतिः ॥ चचाल प्रति पाञ्चालं, चलयनचलां बलैः ॥३७॥ पूरयन्तो दिशः सर्वा, बृंहितैर्गर्जितैरिव ॥ धारासारैरिव रसां, सिञ्चन्तो मदवारिभिः ॥३८॥ स्वर्णादिभूषणैर्विद्युद्द
ण्डैरिव विराजिताः ॥ लक्षद्विकं द्विपा रेजु-स्तत्सैन्येऽब्दा इवाम्बरे ॥३९॥ (युग्मम् ) पञ्चायुतानि तुरगा-स्त्वराधरितवायवः ॥ Pe तत्सेनां भूषणानीवा - म्बुजनेत्रां व्यभूषयन् ॥४०॥ आयुक्तवाजिनो नाना-विधैः प्रहरणैर्भूताः ॥ शताङ्गा विंशतिशती-मितास्तत्र
विरेजिरे ॥४१॥ तद्बलं प्रबलं चक्रु-विक्रमक्रमशालिनाम् ॥ कृतवैशिवपत्तीनां, पत्तीनां सप्त कोटयः ॥४२॥ सज्जया सज्जयार्थिन्या, संयुतः सेनयाऽनया ॥ पाञ्चालसन्धिमच्छिन्नैः, प्रयाणैः स नृपो ययौ ॥४३॥ तञ्चायान्तं चरैख़त्वा, द्विमुखोऽपि महाबलः॥
UTR-2
॥२७॥