SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३३०॥ ३ अष्टादशम ध्ययनम् दशार्णभद्र चरित्रम् ६०-७३ स्वरिवाऽध्यक्षं, मापोऽध्यक्षैरचीकरत् ॥६०॥ [पञ्चभिः कुलकम्] प्रातश्च विधिना स्नात्वा, चन्दनालिप्तभूघनः ॥ अदृष्ये देवदूष्ये द्वे, दधद्भासुरभूषणः ॥६१॥ आतपत्रेण पूर्णेन्दु-पवित्रेण विराजितः ॥ चतुर्भिश्चामरैर्वीज्य-मानो डिण्डिरपाण्डुरैः ॥६२॥ केनाप्यवन्दि न यथा, वन्दे जिनमहं तथा ॥ ध्यायन्निति मुदाऽध्यास्त, महाराजो महागजम् ॥६३।। [त्रिभिर्विशेषकम् ] आरूढसिन्धुरा भूषा-बन्धुराश्च सहस्रशः ॥ सामन्ताः परिवस्तं शक्रं सामानिका इव ॥६४॥ पादाभ्यां प्रेरितो राज-कुञ्जरेणाऽथ कुञ्जरः ॥ शनैः प्रववृते गन्तुं भूमिभङ्गभयादिव! ॥६५॥ सहस्रशस्तदान्येऽपि, वारणा वैरिवारणाः ॥ चलाचलोपमाश्चेलु-मणिमण्डनमण्डिताः ॥६६॥ सहोदराः सप्तसप्तिसप्तीनां तत्र सप्तयः ॥ लक्षशः पुपुषुर्लक्ष्मी, भूरिभूरिविभूषणाः ॥६७॥ आयुक्तहरयो हारि-श्रियस्तत्र सहस्रशः ॥ रथा दिद्युतिरे तिग्म-द्युतिस्यन्दनसोदराः ॥६८॥ नानाविधायुधभृतः, पत्तयोऽपविपत्तयः ॥ शिश्रियुः सुषमां वीरकोटीरास्तत्र कोटिशः ॥६९॥ अध्यासितानि राजीनां, पञ्चशत्या पृथक् पृथक् ॥ रेजिरे याप्ययानानि, सदेवीकविमानवत् ॥७०॥ प्रक्वणत्किङ्किणीवाण-मुखरीकृतदिग्मुखाः ॥ अभ्रंलिहा ध्वजा रेजुः, पञ्चवर्णाः सहस्रशः ॥७१॥ आतोद्यैर्लक्षशो भम्भा-भेरिप्रभृतिभिस्तदा ॥ युगपद्वादितैर्जज्ञे, शब्दाद्वैतमयं जगत् ॥७२॥ मुदा मङ्गलवाक्यानि, पेठुर्मङ्गलपाठकाः॥ श्रवःसुधाश्रवागीति-रगायन् गायनास्तदा ॥७३॥ वारवध्वोऽप्सर:कल्पा, गायन्त्यो भगवद्गु UTR-2 ॥३३०॥ १ सूर्याश्वानाम् ॥ २ अश्वाः ।। ३ सप्तशत्या इति तु 'घ' संज्ञकपुस्तके ।। ४ शिबिका-पालखी-इति भाषा ।
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy