________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥ ७१ ॥
पुरम् ॥ लोकैः पृष्टश्च सकलं, यथा वृत्तमचीकथत् ॥ १६५ ॥ ततः कृतोत्सवाः पौराः, प्रोचुरेवं सविस्मयाः ॥ अहो ! भूमीविभोर्भाग्या-भ्युदयो भुवनाद्भुतः ॥ १६६ । सम्पदामास्पदेप्यन्ये, विन्दन्ति विपदं विशः । असौ तु भाग्यवान् व्याप-दास्पदेप्याप सम्पदम् ॥ १६७ ॥ भूप्रियस्तु प्रियां ध्यायन्, पञ्चमेहनि ययौ नगम् ।। दिनानि कतिचित्तत्र, स्थिरायासीत्पुनः पुरे ॥ १६८ ॥ एवं मुहु| मुहुः शैले, व्रजन्तं तं नृपं प्रजाः ॥ नगेस्मिन् गतिरस्येति, नाम्ना नग्गतिमूचिरे ॥ १६९ ॥ तं चान्यदा गतं तस्मि-न्नद्रावित्यवदत्सुरः॥आदेशं स्वप्रभोःकर्तुं, यास्याम्यहमितोधुना ॥१७० ॥ यद्यप्येनां विहायाहं, क्वापि नो गन्तुमुत्सहे ॥अनुल्लङ्घयां प्रभोराज्ञां तथाप्युल्लङ्घये कथम् ॥ १७१ ॥ कालक्षेपश्च मे भूयान्, भविता तत्र भूपते ! ॥ इतः स्थानाच्च नान्यत्र, सुता मे लप्स्यते रतिम् ॥ १७२ | ॥ तद्यथैकाकिनी न स्या-दसौ कार्यं तथा त्वया ॥ मद्वियोगेऽन्यथा दुःख-मस्या भूरि भविष्यति ॥ १७३ ॥ इत्युदीर्य गते देवे, तस्या
धृतिकृते नृपः ॥ अकारयन्नगे तत्र, नगरं नव्यमुत्तमम् ॥ १७४ ॥ प्रलोभ्य लोकांश्चानेकान्, पुरे तत्र न्यवासयत् ॥ चैत्यान्यचीकरत्तेषु, जिनार्चाश्च न्यवीविशत् ॥ १७५ ॥ ग्रामान् सहस्रशस्तत्रा-रण्ये चावासयन्नृपः ॥ तच्च राज्यद्वयं सम्यक्, शशासोदग्रशासनः ॥ १७६॥ न्यायेन पालयन् राज्यं, क्रीडन् कनकमालया ॥ जिनांश्च पूजयन्नित्यं, स त्रिवर्गमसाधयत् ॥१७७ ॥ सोऽथ कार्तिकराकाया-मन्यदा सैन्यसंयुतः ॥ नरेन्द्रो नगराद्राज - पाटिकायै विनिर्ययौ ॥ १७८ ॥ तदा च पल्लवातानं, मञ्जरीपुञ्जपिञ्जरम् ।। माकन्दमेकमद्राक्षीच्छत्राकारं सदाफलम् ॥ १७९ ॥ चूतस्य तस्य कान्तस्य, मङ्गलार्थमिलापतिः ॥आददे मञ्जरीमेकां, शेषामिव सुधाभुजः ॥ १८० ॥ सैन्यलोकास्ततः सर्वे, पत्रपल्लवमञ्जरीः ॥ आदाय दारुशेषं तं, सहकारं वितेनिरे ॥१८१ ॥ गत्वारामं निवृत्तोथ, तत्रायातः क्षणान्तरे। आम्रः कम्रः स कुत्रेति, राजा पप्रच्छ मन्त्रिणम् ।। १८२ ।। मन्त्रिणा च तरौ तस्मिन्, काष्ठशेषे प्रदर्शिते ॥ ईदृशोसौ कथमभू -दित्यपृ
UTR-2
॥७
॥