________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥ ७० ॥
सञ्जल्प-नुत्पपात मुनिस्ततः ॥ १४७ ॥ तदा कनकमालापि, श्रुत्वा वृत्तान्तमात्मनः ॥ प्राप्ता जातिस्मृति सद्यो, ददर्श प्राग्भवं निजम् ॥ १४८ ॥ मत्पितायमिति प्रेम, सुरे सा तत्र बिभ्रति ॥ तात ! को मे वरो - भावीत्यप्राक्षीत्तं दिवौकसम् ।।१४९ ॥ सुरोथावधिना ज्ञात्वा, प्रोचे प्राच्यस्तव प्रियः ॥ राजा विजितशत्रुः स, देवीभूय च्युतो दिवः॥ १५० ॥ दृढसिंहमहीनेतुः, सुतः सिंहरथाह्वयः ॥ जातोस्ति मेदिनीभर्ता, भर्त्ता भावी स ते सुते ! ॥ १५१ ॥ (युग्मम् ) तत्सङ्गो मे कथमिह, भावीत्युक्तस्तया पुनः? ।। सुरोवादीदिहागन्ता, वाजिनापहृतो हि सः ॥ १५२ ॥ तदुद्वेगं विहाय त्व-मिह तिष्ठ यथासुखम् ।। अहं त्वदादेशकारी, स्थास्यामि तव सन्निधौ ॥ १५३ ॥ इत्युक्त्वा सपरीवारः, प्रासादेऽस्थादिहामरः ॥ तस्थौ कनकमालापि, तदभ्यणे सुरीवृता ॥ १५४ ।। स्वामिन् ! कनकमालां तां, मामवेहि गुणोदधे ! ॥ स देवस्तु ययौ मेरुं, चैत्यनत्यै गतेऽहनि ॥ १५५ ॥ ततस्त्वमपराह्ने म- त्पुण्याकृष्ट इहागमः ॥ मन्मनोनयनाम्भोज-विभासनविभाकरः ॥ १५६ ॥ मया तूत्कण्ठया ताता-गमं यावत्प्रतीक्षितुम् ॥ अशक्तया त्वया साकं, स्वयमात्मा विवाहितः ।। १५७ ॥ एष स्वामिन् स्ववृत्तान्तो, मया तुभ्यं निवेदितः ॥ इति तद्वाक्यमाकर्ण्य, जाति सस्मार पार्थिवः ॥ १५८ ॥ अत्रान्तरे सुरवधू-युतस्तत्रागतः सुरः ॥ प्रणेमे भूभुजा सोऽपि, तमुच्चैरभ्यनन्दयत् ॥ १५९ ॥ ततो विवाहवृत्तान्ते, प्रोक्ते कनकमालया । अत्यर्थं मुदितो देव-चिरं भूपमवार्तयत् ॥ १६० ॥ दिव्यं भोज्यं च मध्याह्न , सभार्यो बुभुजे नृपः । इत्थं स्थित्वा मासमेकं, सोन्यदेत्यवदत्प्रियाम् ॥ १६१ ॥ अरक्षकं भोज्यमिव, द्विका राज्यं मम द्विषः॥ उपद्रोष्यन्ति तद्गन्तु - मनुमन्यस्व मां प्रिये ! ॥ १६२ ॥ सावदत्त्वत्पुरं दूरे, पादचारेण तत्कथम् ॥ इतो यास्यसि तत्र त्वं, ततो वात्रागमिष्यसि ? ॥ १६३ ॥ तत्प्रज्ञप्ती | महाविद्यां, गृहाण त्वं मदन्तिकात् ॥ ततो राजा गृहीत्वा तां, विधिपूर्वमसाधयत् ॥ १६४ ॥ अगाच्च व्योममार्गेण, प्रियां पृष्टवा निजं
UTR-2
॥७०॥