SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अध्य. ९ उत्तराध्ययनसूत्रम् ॥५२॥ | तांश्च, ग्रन्थिभेदा ये घुर्घरककर्तिकादिना ग्रन्थिं भिन्दन्ति तांश्च, तथा तस्करान् सर्वदा चौर्यकारिणो निवार्येति शेषः । नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय !। अनेन च यो न्यायी नृपः स चौरादीन्निगृह्णाति, न्यायी नृपश्च त्वमिति सूचितमिति सूत्रार्थः ॥ २८॥ मूलम्-- एअमटुं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविदं इणमब्बवी ॥ २९ ॥ | मूलम्--असई तु मणुस्सेहि, मिच्छादंडो पजुज्जए । अकारिणोत्थ बज्झंति, मुच्चइ कारगो जणो ॥ ३० ॥ | व्याख्या-- असकृदनेकधा तुरेवकारार्थे, ततोऽसकृदेव मनुष्यैनरैमिथ्या व्यलीकोऽनपराधिष्वपि अज्ञानाभिनिवेशादिभिर्दण्डो | देशत्यागविग्रहनिग्रहादिः प्रयुज्यते व्यापार्यते, कथमित्याह-अकारिण आमोषणादेरविधायिनोऽत्रेत्यस्मिन् लोके बध्यन्ते निगडादिभिः, मुच्यते कारको विधायकः प्रक्रमादामोषणादेरेव जनो लोकः । अनेन च यदुक्तं प्रागामोषकादीनिवार्य नगरस्य क्षेमं कृत्वा गच्छेति | तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणमप्यशक्यमुक्तमिति सूत्रार्थः ॥ ३०॥ मूलम्-- एअमटुं निसामित्ता, हेऊकारणचोइओ। तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥३१॥ व्याख्या-- प्राग्वन्नवरमियद्भिः प्रश्नः स्वजनान्तःपुरपुरप्रासादनृपधर्मविषयः किमस्य रागोस्ति नवेति परीक्ष्य सम्प्रति द्वेषाभाव| परीक्षायै विजिगीषुतामूलत्वाद् द्वेषस्य तामेव परीक्षितुमनाः शक्र इदमवदत् ॥ ३१ ॥ मूलम्--जे केइ पत्थिवा तुब्भं, न नमंति नराहिवा। वसे ते ठावइत्ता णं, तओ गच्छसि खत्तिआ ! ॥ ३२ ॥ व्याख्या-- ये केचित् पार्थिवा नृपास्तुभ्यं न नमन्ति हे नराधिप! हे राजन् ! वशे आत्मायतौ तान् नृपान् स्थापयित्वा वशी UTR-2 ॥५२॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy