SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य अध्य.९ यनसूत्रम् ॥२४॥ गर्भः स एवायं, येनेयं वेष्टिता पुरी ॥ तयेत्युक्ताश्च स प्रापा-नन्दं वाचामगोचरम् ॥१९॥ उत्कण्ठोत्कर्षपानीया-पूर्णमानसमानसः ॥ सुतेन तेन सङ्गन्तुं, गन्तुं प्रववृते नृपः ॥२०॥ समायान्तं समाकर्ण्य, करकण्डुनृपोऽपि तम् ।। अभ्यागात् पादचारेण, पादयोश्चापतत्पितुः ॥२१॥ पितापि तं नतं दोर्ध्या-मादाय परिषस्वजे ॥ तदङ्गसङ्गपीयूषै-निजं निर्वापयन् वपुः ॥२२॥ भूपाब्धेः पश्यतस्तस्यादृष्टपूर्वं सुतोडुपम् ॥ललो लघु हृत्कूल-मुद्वेलैः प्रमदोदकैः ॥२३॥ तञ्चाभ्यषिञ्चदङ्कस्थं, नृपः प्राक् सम्मदाश्रुभिः ॥ राज्याभिषेकनारेश्च, | पश्चात्सिंहासनस्थितम् ॥२४॥ इति चावोचदायुष्मन् ! राज्यमेतत्क्रमागतम् ॥ पालनीयं तथा लोका, यथा नैव स्मरन्ति माम् ॥२५॥ नियोज्येमां राज्यभार-धुरां त्वयि धुरन्धरे । धास्ये धर्मधुरां युक्त-मिदं हि समये विदाम् ॥२६॥ इत्युक्त्वा व्रतमादत्त, नृपः सद्गुरुसन्निधौ ॥ करकण्डुधराधीश-कृतनिष्क्रमणोत्सवः ॥ २७ ॥ | अथ प्रतापदावाग्नि-ध्वस्तवैरियशोद्रुमः ॥ करकण्डुनृपो राज्य-द्वयं सनयमन्वशात् ॥ २८॥स चोर्वीशः स्वभावेन, भृशं वल्लभगोकुलः ॥ स्वीचक्रे तानि भूयांसि, यादांसीव पयोनिधिः ॥ २९ ॥ स चान्यदा गतः क्वापि, गोकुले जलदात्यये । सुरभी: सौरभेयांश्च, तर्णकांश्च विलोकयन् ॥३०॥ गौरं गौरीगुरुगिरेः शृङ्गाद्गङ्गाजलाप्लुतात् ॥ एकं तर्णकमद्राक्षी - मुग्धं स्निग्धतनुच्छविम् ॥ ३१ ॥ जातप्रेमा ततस्तस्मिन्, भूमान् गोदुहमूचिवान् ॥ एतन्मातुः पयोऽस्यैव, देयं दोह्या तु नैव सा ॥ ३२ ॥ कञ्च वृद्धिं गतस्यास्य, मच्चित्तानन्ददायिनः ॥ अन्यासामपि धेनूनां, पायनीयं पयोऽन्वहम् ॥३३॥ गोपालोऽपि महीपाल-वचनं प्रतिपद्य तत् ॥ तथैव विदधे को वा, राज्ञामाज्ञां विलुम्पति ? ॥ ३४ ॥ सोऽथ वत्सो वर्धमानः, स्पर्धमानः शशित्विषा ॥ पलोपचयदुर्लक्ष्य-कीकसः UTR-2 ॥२४॥ ★ हिमाद्रेः।
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy