________________
उत्तराध्ययनसूत्रम्
॥२६४॥
अष्टादशम ध्ययनम् सनत्कुमारचक्रिकथा १२३-१३७
त्ययम् ॥१२३॥ आर्यपुत्रस्ततोऽटव्या-मेकाकी पूर्ववद् भ्रमन् ॥ सप्तभूमीकमद्राक्षीत्, प्रासादमधिभूधरम् ॥१२४॥ मायेयमपि कस्यापि, भाविनीत्येष भावयन् ॥ तत्समीपे गतोऽश्रौषी-त्कस्याश्चिदुदितं स्त्रियाः ॥१२५॥ ततस्तत्र प्रविश्याय-मारूढः सप्तमी भुवम् ॥ दिव्यां कनी ददर्शकां, वदन्तीमिति गद्गदम् ॥१२६॥ जगत्त्रयजनोत्कृष्ट, कुरु वंशनभोरवे! ॥ सनत्कुमार ! भर्ता त्वं, भूयाज्जन्मान्तरेऽपि मे ॥१२७॥ तदाकर्ण्य ममासौ का, भवतीति विचिन्तयन् ॥ पुरोभूयार्यपुत्रस्तां, न्यग्मुखीमेवमब्रवीत् ॥१२८॥ का त्वं सनत्कुमारेण, सम्बन्धस्तव कः पुनः ? || मुहुः स्मरन्ती तं चैवं, केन दुःखेन रोदिषि ? ॥१२९ ॥ पृष्टानेनेति साऽमुष्मै, प्रदायासनमुत्तमम् ।। सुस्मिता विस्मिता प्रोचे, सुधामधुरया गिरा ॥१३०॥ सुराष्ट्रराजः साकेत-पुरेशस्य सुतास्म्यहम् ॥ सुनन्दाह्वा चन्द्रयशो-देवीकुक्षिसमुद्भवा ॥१३१॥ कलयित्वा कलाः सर्वा, वयो मध्यममध्यगाम् ॥ धवोऽस्याः कोऽनुरूप: स्या-दिति दध्यौ तदा नृपः ? ॥१३२॥ आनाय्य भूपरूपाणि, ततो मेऽदर्शयन्मुहुः ॥ नारमत्तेषु मे दृष्टिः, किंशुकेषु शुकी यथा ! ॥१३३॥ दूतानीतपटन्यस्तं, पित्रा दर्शितमन्यदा ॥ रूपं सनत्कुमारस्य, वीक्ष्य व्यामुहमुच्चकैः! ॥१३४॥ ह्रियानुक्तोऽपि तातेन, रागोऽबुध्यत तत्र मे ॥ प्रच्छन्नोऽपि प्रकाशः स्या-तृणच्छन्नाग्निवत्स हि ! ॥१३५॥ ततः सनत्कुमाराय, पितृभ्यां कल्पितास्म्यहम् ॥ भर्ता तदिच्छामात्रेण, स मे न तु विवाहतः ॥१३६॥ [ इतश्च] खेचरः कोऽपि हृत्वा मामिहानैषीत्स्वकुट्टिमात् ॥ विद्याकृतेऽत्र गेहे मां, मुक्त्वा च क्वाप्यगात्कुधीः ॥१३७॥ स्मारं स्मारं कुमारं तं, ततो रोदिमि
UTR-2
॥२६४॥