________________
Va
उत्तराध्ययनसूत्रम् ॥२६५॥
अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा१३८-१५२
सुन्दर ! ॥ बालानामबलानां च, दुःखितानां ह्यदो बलम् ॥१३८ ॥ आख्यत्सखा ते मा रोदी-र्यस्मै दत्तासि सोऽस्म्यहम्॥ सानन्दाख्यत्सुनन्दाथ, दैवं जागति देव मे ॥१३९॥ तयोरालपतोरेव-मागात्तत्र कृधा ज्वलन् ॥ नन्दनोऽशनिवेगस्य, वज्रवेगः स खेचरः ॥१४०॥ त्वन्मित्रं च समुत्पाट्यो-दक्षिपद्वियति द्रुतम् ॥ रुदती सुदती भूमौ, मूर्छिता साऽपतत्ततः ॥१४१॥ मुष्टिघातेन दुष्टं तं ततो व्यापाद्य तत्क्षणम् ॥ अक्षताङ्गस्तामुपेत्या-श्वासयामास ते सखा ॥१४२॥ वार्ता प्रोच्यात्मनः सर्वा-मुदुवाह च तां मुदा ॥ अमुष्य मुख्यपत्नी सा, भाविनी भाविचक्रिणः ॥ १४३॥ स्वसाथ वज्रवेगस्य, नाम्ना सन्ध्यावली कनी ॥ तदा तत्राययौ भ्रातृ-वधं वीक्ष्य चुकोप च ॥१४४॥ भावी भती भ्रातृहन्ता, तवेति ज्ञानिनो गिरम् ॥ स्मृत्वा शान्ता पतीयन्ती, सार्यपुत्रमुपासरत् ॥१४५॥ अयं तामप्युपायंस्त, सुनन्दानुजया कृती ॥ स्वयमायान्ति पात्रं हि, स्त्रियोऽर्णवमिवापगाः! ॥१४६॥ अत्रान्तरे खेचरौ द्वावुपेत्यामुं प्रणम्य च ॥ प्राभृतीकृत्य कवचं, स्यन्दनं चैवमूचतुः ॥१४७॥ स्वपुत्रमरणोदन्तं, ज्ञात्वा विद्याधराधिपः॥ आयात्यशनिवेगोऽत्र, सैन्यैराच्छादयन्नभः ॥१४८॥ तत आवां हरिश्चन्द्र-चन्द्रवेगौ तवान्तिके ॥ प्रहितौ चन्द्रवेगेन भानुवेगेन चात्मजौ ॥१४९॥ आरोहार्करथाभं त-त्तत्प्रेषितममुं रथम् ॥ कवचं चामुमामुंच वज्रसन्नाहसंनिभम् ॥१५०॥ चन्द्रवेगभानुवेगौ, सोदरौ श्वसुरौ तव ॥ महाचमूवृतौ स्वामिन् ! विद्धि सेवार्थमागतौ ॥१५१॥ तयोरेवं प्रवदतोस्तत्र तावप्युपेयतुः ॥ खेचरेन्द्रौ चन्द्रवेग-भानुवेगौ महाबलौ ॥१५२॥ तदा सन्ध्यावली विद्या-मस्मै प्रज्ञप्तिकां
UTR-2
॥२६५॥