SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥२६६॥ ददौ ॥ ततोऽयमपि सन्नह्य, रथमारोहदाजये ॥ १५३ ॥ ततोऽमुं चन्द्रवेगाद्याः, खेचराः परिवव्रिरे ॥ तदा चाशनिवेगस्य, तत्राऽगात्प्रबलं बलम् ॥ १५४ ॥ तेन सार्धं चन्द्रवेग भानुवेगौ बलान्वितौ ॥ योद्धुं प्रवृत्तौ त्वन्मित्रं निषिध्यापि रणोद्यतम् ॥ १५५ ॥ योधं योधं भग्नयोश्च सैन्ययोरुभयोश्चिरात् ॥ आर्यपुत्राशनिवेगौ युयुधाते महौजसौ ॥ १५६ ॥ तयोश्च कुर्वतोर्युद्धं, जयश्रीसङ्गमोत्कयोः ॥ आशुगैराशु तिरयां चक्रिरे भानुभानवः ॥ १५७॥ मुमोचाशनिवेगोऽथ, नागास्त्रमतिभीषणम् ॥ तच्च गारुडशस्त्रेण न्यग्रहीद्भवतः सखा ॥ १५८॥ आग्नेयं वारुणेनैवं वायव्यं पार्वतेन च 11 वैरिशस्त्रं निजग्राह प्रतिशस्त्रेण ते सुहृत् ॥ १५९ ॥ ततः कार्मुकमादाय, नाराचं मुंचतो द्विषः ॥ अर्द्धेन्दुनाऽसौ चिच्छेद, मौर्वी सह जयाशया ॥ १६० ॥ अथो कृपाणमाकृष्य, धावतस्तस्य ते सखा ॥ बाहोरर्द्धं महाबाहु-र्मृणालच्छेदमच्छिनत् ॥ १६१ ॥ तथापि धावतो हन्तुं तस्य प्रज्वलतः कुधा ॥ विद्यादत्तेन चक्रेण, चक्रेऽसौ मस्तकं पृथक् ! ॥ १६२ ॥ राज्यलक्ष्मीस्ततः सर्वा तस्य खेचरचक्रिणः ॥ हराविव प्रतिहरेः सञ्चक्राम मम प्रिये ॥ १६३॥ सन्ध्यावलीसुनन्दाभ्यां सानन्दाभ्यां युतस्ततः ॥ वैताढ्याद्रौ जगामासौ चन्द्रवेगादिभिः समम् ॥१६४॥ तत्र चामुष्य संभूय, सकलैः खेचरैश्चरैः ॥ विद्याधरमहाराज्याभिषेको निर्ममे मुदा ॥ १६५ ॥ अथैनं शाश्वते चैत्ये, विहिताष्टाहिकोत्सवम् ॥ खेचरेन्द्रश्चन्द्रवेग इत्यूचे मत्पिताऽन्यदा ॥ १६६ ॥ ममार्चिर्मालिमुनिना, प्रोक्तं यत्तुर्यचक्रभृत् ॥ भावी सनत्कुमाराख्यः पतिः पुत्रीशतस्य ते ॥ १६७ ॥ स चायास्यति भासेन, मानसेऽत्र सरोवरे ॥ अष्टादशमध्ययनम् सनत्कुमारचक्रिकथा १५३-१६७ UTR-2 ॥२६६ ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy