SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२६७॥ अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा १६८-१८९ तत्रासिताक्षयक्षं च, पराजेता महाभुजः ॥१६८॥ ततो बकुलमत्यादि-सुताशतमिदं मम ॥ परिणीय प्रभो ! क्षिप्रं, प्रार्थनां मे कृतार्थय ॥१६९॥ विज्ञप्त इति मत्पित्रा, वयस्यस्ते महाशयः ॥ मदादिकाः शतं कन्याः, परिणिन्ये महा महैः ॥१७०॥ ततो विविधलीलाभिः, क्रीडन् विद्याधरीवृतः ॥ निनायासौ सुखं कालं, खेचरेन्द्रनिषेवितः ॥१७१॥ | अद्य तु क्रीडयात्रागा-दैवाच्च मिलितो भवान् ॥ अनुकूले हि दैवे स्या-द्विनोपायमपीहितम् ॥१७२॥ एवं बकु लमत्योक्ते, गृहान्निर्गत्य भूपभूः ॥ मित्रेण सह वैताढ्यं, जगाम सपरिच्छदः ॥१७३॥ प्राप्यावसरमन्येधु-महेन्द्रस्तं व्यजिज्ञपत् ॥ पितरौ त्वद्वियोगात्तौं, प्रभो ! भूरि विषीदतः ॥१७४॥ कदा कुमारं द्रक्ष्यामो, ध्यायन्तावित्यहर्निशम् ॥ स्वदर्शनेन पितरौ, प्रमोदयितुमर्हसि ॥१७५॥ श्रुत्वेति सोऽपि सोत्कण्ठः, सकलत्रस्वमित्रयुक् ॥ विमानैर्विविधैर्कोम्नि, दर्शयन् शतशो रवीन् ॥१७६॥ दिव्यवेषैर्कोमयायि-द्विपवाहादिवाहनैः ॥ ससैन्यैः खेचराधीशै-वृतः शक्र इवामरैः ॥१७७॥ वर्यतूयौघनिर्घोषै, रोदसी परिपूरयन् ॥ जगाम सम्पदां धाम, पुरं श्रीहस्तिनापुरम् ॥१७८॥ [त्रिभिविशेषकम् ] तत्र स्वदर्शनेनाशु, पितरौ नागरांश्च सः॥ प्रामुमुदच्चक्रवाको, पद्मानि च यथार्यमा ॥१७९॥ पश्यन्युत्रस्य तां लक्ष्मी-मश्वसेननरेश्वरः ॥ विस्मयं च प्रमोदं च, प्राप वाचामगोचरम् ॥१८०॥ तुष्टेन राज्ञा पृष्टोऽथ, कुमारस्यात्मनश्च तम् ॥ वृत्तान्तमखिलं प्रोचे, महेन्द्रो विस्मयावहम् ॥१८१॥ ततोऽश्वसेनभूपालः पुत्र राज्ये न्यवी UTR-2 ॥२६७॥ १ जयिष्यति महाभुजः । इति "घ" संज्ञकपुस्तके ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy