SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ T उत्तराध्ययनसूत्रम् ॥२६८॥ अष्टादशमध्ययनम् सनत्कुमार चक्रिकथा |१८२-१९६ विशत् ॥ सुधीर्महेन्द्रसिंह च, तत्सेनाधिपति व्यधात् ॥१८२॥ स्वयं तु श्रीधर्मनाथ-तीर्थे स्थविरसन्निधौ ॥ विरक्तो व्रतमादाय, निजं जन्माकृतार्थयत् ॥१८३॥ अथो सनत्कुमारस्य, राज्यं पालयतोऽन्यदा ॥ चक्रादीनि महारत्नान्यजायन्त चतुर्दश ॥१८४॥ ततो वर्षसहस्रेण, साधयित्वा स भारतम् ॥ निधानानि नवासाद्य, पुनरागान्निजम् पुरम् ॥१८५॥ प्रविशन्तं पुरे तं चा-वधिना वीक्ष्य वासवः ॥ मत्तुल्योऽसौ प्राग्भवेऽभू -दिति स्नेहं ददौ भृशम् ॥१८६॥ श्रीदं चेत्यादिशच्चक्री, तुर्योऽसावस्ति मे सुहृत् ॥ राज्याभिषेकं तद्गत्वा, कुरुष्वाऽमुष्य धीनिधे ! ॥१८७॥ इत्युक्त्वा चामरे च्छवं, हारं मौलिं च कुण्डले ॥ सिंहासनं पादपीठं, देवदूष्ये च पादुके ॥१८८॥ दातुं सनत्कुमाराय, धनदस्य हरिददौ ॥ रम्भातिलोत्तमादींश्च गन्तुं तेन सहादिशत् ॥१८९॥ [ युग्मम् ] ततस्तदन्वितो गत्वा, कुबेरो हस्तिनापुरे ॥ सौधर्माधिपतेराज्ञां, चक्रिणे तां न्यवेदयत् ॥१९०॥ तेन चानुमतः श्रीदो, विचक्रे योजनायतम् ॥ माणिक्यपीठं तस्योर्ध्वं, मण्डपं च मणीमयम् ॥१९१॥ मणिपीठं च तन्मध्ये, कृत्वा सिंहासनाञ्चितम् ॥ आनाययद्वैश्रवणः, क्षीरोदादुदकं सुरैः ॥१९२॥ ततः सगौरवं श्रीद-श्चक्रिणं तत्र मण्डपे ॥ सिंहासने निवेश्येन्द्र-प्रहितं | प्राभृतं ददौ ॥१९३॥ चक्रे चक्रित्वाऽभिषेकं, तैर्जलैः सोऽथ चक्रिणः ॥ मङ्गलातोद्यनिर्घोषं, तदोच्चैश्चक्रिरे सुराः | ॥१९४॥ तदा मङ्गलगीतानि, जगुनिर्जरगायनाः ॥ रम्भातिलोत्तमाद्याश्च, नाटकं व्यधुरुत्तमम् ॥१९५॥ पूज| यित्वाथ तं वस्त्र-भूषामाल्यविलेपनैः ॥ श्रीदः प्राविविशद्गन्ध-हस्तिना हस्तिनापुरे ॥१९६॥ रत्नादिवृष्ट्या कृत्वा च, UTR-2 ॥२६८॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy