________________
उत्तराध्ययनसूत्रम् ॥२६९॥
अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा १९७-२११
तत्पुरं स्वपुरीसमम् ॥ विसृष्टश्चक्रिणा स्वर्गं, ययौ यक्षपतिर्दृतम् ॥१९७॥ चक्रेऽथ पार्थिवैस्तस्या-ऽभिषेको द्वादशाब्दिकः ॥ कृपालुः सोऽथ भूपालो, न्यायेनापालयत्प्रजाः ॥१९८॥ भोगांश्चावामवामाक्षी-सम्भोगाभोगमञ्जुलान् ॥ भुञ्जानोऽगमयद्भूमान्, वासरानिव वत्सरान् ॥१९९॥ अन्यदा दिवि देवेन्द्रः, सुधर्मासदसि स्थितः ॥ नाटकं नाटयन्नासीद्रम्यं सौदामिनाभिधम् ॥२००॥ तदा तत्रेशानकल्पा-दाययौ सङ्गमाभिधः ॥ सुपर्वा रूपतेजोभ्यां, निर्जरान्निर्जयन् परान् ॥२०१॥ तस्मिन् गते सुराः शक्र-मपृच्छन्निति विस्मिताः ॥ कुतोऽस्य तेजो रूपं च, सर्वगीर्वाणगर्वहृत् ॥२०२॥ इन्द्रः प्रोचेऽमुनाचाम्ल-वर्धमानाभिधं तपः ॥ कृतं पूर्वभवे तेजो, रूपं चास्य तदीदृशम् ॥२०३॥ एवंविधोऽन्योऽपि कोऽपि, किमस्ति भुवनत्रये ॥ इति पृष्टः पुनर्देव-देवराजोऽब्रवीदिदम् ॥२०४॥ सनत्कुमारनामास्ति, नृहस्ती हस्तिनापुरे ॥ तस्य रूपं च तेजश्च, सुरेभ्योऽप्यतिरिच्यते ! ॥२०५॥ अश्रद्दधानौ तच्छक-वचनं त्रिदशावुभौ ॥ विजयो वैजयन्तश्च, विप्ररूपमुपाश्रितौ ॥२०६॥ आगत्य चक्रिप्रासाद-द्वारे तस्थतुरुत्सुकौ ॥ बभूव सार्वभौमस्तु, तदा प्रारब्धमज्जनः ॥२०७॥ [ युग्मम् ] प्रावीविशद्विशामीशो, द्वास्थेनोक्तौ तदापि तौ ॥ वैदेशिकान् दर्शनोत्कान्, विलम्बयति नो सुधीः ॥२०८॥ ततस्तौ वीक्ष्य तद्रूप-मधिकं शक्रवर्णितात् ॥ प्राप्तौ वचोतिगं चित्रं, शिरोऽधूनयतां चिरम् ॥२०९॥ दध्यतुश्चेत्यहो ! अस्य, तेजः प्राज्यं खेरिव ॥ पयोधिजलवन्माना-तिगं लावण्यमप्यहो ! ॥२१०॥ स्थाप्यते दृष्टिरस्याने, यत्र यत्र ततस्ततः ॥ कीलितेव निमग्नेव कृच्छ्रादेव निवर्त्तते ! ॥२११॥
UTR-2
॥२६९॥