________________
उत्तराध्ययनसूत्रम् ॥२६३॥
अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा १०९-१२२
मुत्क्षिप्य यक्षोऽथा-ऽक्षिपदस्योपरि द्रुतम् ॥ क्षणं निश्चेतनो जज्ञे, बाधितस्तेन ते सुहृत् ॥१०९॥ लब्धसंज्ञस्तु तं शैल-मवधूयोत्थितो द्रुतम् ॥ आर्यपुत्रो नियुद्धेन, यो माह्वास्त गुह्यकम् ॥११०॥ ततोऽसौ बाहुदण्डेन, हत्वा तं खण्डशो व्यधात् ॥ अमरत्वात्तदा मृत्यु-माससाद न गुह्यकः ॥१११॥ ततो रसित्वा विरस-मसिताक्षः पलायत ॥ पुरो हि हस्तिमल्लस्य, महिषः स्यात्कियच्चिरम् ॥११२॥ वीक्षितुं समराश्चर्य-मागताः सुरखेचराः ॥ मौलौ त्वत्सुहृदः पुष्प-वृष्टिं तुष्टा वितेनिरे ! ॥११३॥ अपराह्ने पुरो गच्छं-स्ततोऽसौ नन्दने वने ॥ ददर्शाष्टौ कनीः शक्र-महिषीरिव सुन्दराः ॥११४॥ कटाक्षदक्षनयनै-र्ददृशे ताभिरप्ययम् ॥ अथोपेत्यार्यपुत्रस्ता-स्तद्भावं ज्ञातुमित्यवक् ॥११५॥ नयनानन्दना यूयं, कृतिनः कस्य नन्दनाः ॥ हेतुना केन युष्माभि-र्वनमेतदलङ्कृतम् ? ॥११६॥ ताः प्रोचुर्भानुवेगस्य, खेचरस्य सुता वयम् ॥ इतश्च नातिदूरेऽस्ति, तत्पुरी प्रियसङ्गमा ॥ ११७ ॥ तामलङ्कृत्य विश्राम्ये-त्युक्तस्ताभिः | सखा तव ॥ दर्शिताध्वा तदादिष्ट-किङ्करेण जगाम ताम् ॥ ११८ ॥ उपापरार्णवं भानु-स्तदानीयत सन्ध्यया ॥ उपतातं मुदानायि, सौविदैस्ताभिरप्यसौ ॥ ११९ ॥ अभ्युत्थानादिकं कृत्वो-चितं सोऽप्येनमित्यवक् ॥ उद्बह त्वं महाभाग!, ममाष्टौ नन्दना इमाः ॥ १२० ॥ एतासां स प्रियो भावी, योऽसिताक्षं विजेष्यते ॥ इत्यचिर्मालिमुनिना, प्रोचे तत्प्रार्थ्यसे मया ॥ १२१ ॥ तेनेत्युक्तस्तव सुहृत्, परिणिन्ये तदैव ताः ॥ ताभिः सहास्वपीद्वासा-वासे चाऽऽबद्धकङ्कणः ॥ १२२ ॥ तदोत्क्षिप्यासिताक्षोऽमुं, निद्राणं गहनेऽक्षिपत् ॥ तत्र प्रेक्ष्य विनिद्रः स्वं, दध्यौ किमिदमि
UTR-2
॥२६३॥