________________
उत्तराध्य
यनसूत्रम्
।। ५० ।।
श्रद्धाप्रत्यनीकस्यानन्तानुबन्धिकोपस्य रोधकत्वेन वैरनिवारणं प्रति कुशलं प्राकारं कृत्वा, उपलक्षणञ्चैषां मानादिरोधकानां मार्दवादीनां । 'तिगुत्तंति' तिसृभिरट्टालकोत्सूलकशतघ्नीस्थानीयाभिर्मनोगुप्त्यादिगुप्तिभिर्गुप्तं दुष्प्रधर्षकं परैर्दुरभिभवं, वप्रविशेषणान्येतानि । अनेन प्राकारं कारयित्वेत्यादेः प्रतिवचनमुक्तं ॥ २० ॥ सम्प्रति तु सत्सु प्राकाराट्टालकेष्ववश्यं योद्धव्यं तच्चायुधेषु वैरिषु च सत्स्वेव स्यादत आहमूलम् - धणुं परक्कमं किच्चा, जीवं च इरिअं सया । धिई च केअणं किच्चा, सच्चेणं पलिमंथ ॥ २१ ॥ व्याख्या- धनुः कोदण्डं पराक्रमं जीववीर्योल्लासरूपं उत्साहं कृत्वा, जीवां च प्रत्यञ्चां च ईर्यामीर्यासमिति, उपलक्षणत्वाच्छे षसमितीश्च कृत्वा सदा । धृतिं च धर्माभिरतिरूपां केतनं शृङ्गमयधनुर्मध्ये काष्टमयमुष्ट्यात्मकं कृत्वा, तत्केतनं सत्येन मनः सत्यादिना स्नायुस्थानीयेन 'पलिमंथएत्ति' बध्नीयात् ॥ २१ ॥ ततः किमित्याहमूलम्-तवनारायजुत्तेणं, भित्तूणं कम्मकंचुअं । मुणि विगयसंगामो भवाओ परिमुच्चई ॥२२॥ व्याख्या- तपः षड्विधमाभ्यन्तरं तदेव नाराचो लोहमयो बाणस्तद्युक्तेन प्रक्रमाद्धनुषा भित्वा विदार्य कर्मकञ्चकं कर्मग्रहणेन चात्मैवोद्धतो वैरी भवतीत्युक्तं भवति, वक्ष्यति च "अप्पा मित्तममित्तं च, दुपट्ठिअसुपट्ठिएत्ति" मुनिः साधुः कर्मभेदे जेयस्य जितत्वात् विगतः सङ्ग्रामो यस्य स विगतसङ्ग्रामः भवात् संसारात् परिमुच्यते । अनेन सूत्रत्रयेण प्राकारं कारयित्वेत्यादिसूत्रस्य सिद्धसाधनतोक्तेति सूत्रत्रयार्थः ॥ २२ ॥
,
मूलम् - एअमट्ठे निसामित्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥२३॥
UTR-2
अध्य. ९
॥५०॥